SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू० ८ । कवेराशयः । अत्र ज्वरवतः स्त्रानं प्रतिकूलमित्यायुर्वेदसिद्धान्तः स्वानुकूल्येनोपनिबद्धः॥ एवं ज्योतिःशास्त्रनैपुण्यं यथा"यामालोकयतां कलाः कलयतां, छायां समाचिन्वतां, क्लेशः केवलमङ्गुलीगणयतां मौहूर्तिकानामयम् ।। धन्या सा रजनी तदेव सुदिनं, पुण्यः स एव क्षणो, यत्राज्ञातचरः प्रियानयनयोः सीमानमेति प्रियः ॥” [ विद्यानन्दस्य] शोभनमुहूर्तज्ञानाय द्यामालोकयताम् , एतेन नक्षत्रज्ञानं सूच्यते, कलाःकालावयवरूपा नाडिकाः, कलयतां-गणयताम् , छायां-शङ्कुपादादिजनिता. मातपाभावरूपां, दिवसे समयज्ञानाय, समाचिन्वतां-पर्यालोचयताम् , अङ्गुलीगणयताम्-अङ्गुल्याः पर्वसु नक्षत्रादीनां समुचिता संख्यां ज्ञातुं गणनामाचरताम्, मौहूर्तिकानां-मुहूर्तावेदकानाम् , अयं-पूर्वोक्तप्रकारः, केवलं क्लेश एव, न तेन शुभो मुहूर्तः प्रत्यक्षीकर्तुं शक्य इत्यर्थः । तर्हि काऽन्या विधेति चेदवाह-सा रजनी धन्या, तदेव सुदिनम् , स एव क्षणः पुण्यः, यत्र प्रियः, अज्ञातचरः-पूर्वमज्ञातागमनसमयः सन् , प्रियानयनयोः सीमानमेति । अत्र प्रियस्याकस्मिकमागमनं यत्र रात्रौ दिवसे क्षणे वा भवति, स एव समयः सर्वथा शुभः, तदर्थं मुहूर्तान्तरपालोचना व्यर्थेति विवक्षया मौहूर्तिकाचारस्य वैयोक्तिस्तच्छास्त्रपरिशीलनं गमयति ॥ गजलक्षणनैपुण्यं यथा "कर्णाभ्यर्णविकीर्णचामरमरुद्विस्तीर्णनिःश्वासवान् , शङ्खच्छत्रविराजिराज्यविभवद्वेषी निलीनेक्षणः । स्मृत्वा राघवकुञ्जरः प्रियतमामेकाकिनी कानने, संत्यक्तां चिरमुक्तभोगकवलं केशोष्मणा शुष्यति ॥" [कनकजानकी] राघवकुञ्जर एकाकिनी प्रियतमां कानने संत्यक्तां स्मृत्वा चिरमुक्तभोगकवलं केशोष्मणा शुष्यति । कीदृशो राघवकुञ्जरः। तत्राह-कर्णाभ्यर्णचिकीर्णचामरमरुद्विस्तीर्णनिःश्वासवान् , शङ्खच्छत्रविराजिराज्यविभवद्वेषी, निलीनेक्षणः, राज्यस्थितस्य रामस्य सीतापरीवादश्रवणेन तां प्रजानुरञ्जनाय कानने संत्यज्य तस्या For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy