SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सालङ्कारचूडामणी काव्यानुशासने -- -- - - -- नेष्वपि, तेषां शोषणे पटुः-समर्थः, कम्पः-शरीरे जायमानं कम्पनम् , सखीकम्पनः-सहचरीणां भीतिजनकः, कुत इयमित्थं कम्पते ? किं भाव्यस्या इति शङ्कया सख्यो बिभ्यति, श्वासाः-नासिकावायवः, सम्भिन्नानि-विदारितानि, चीनांशुकानि-चीनदेशोद्भवसूक्ष्मवस्त्राणि यैस्तादृशाः, अथ च संवृताः-आच्छादिताः, सारहाराणां-सारभूतमुक्तामालानाम्, रुचयः-कान्तयो यैस्तथाभूताः, चीनांशुकं भेदयित्वा अन्तःप्रविशद्भिः श्वासैर्मुक्तामालानां रुचिराच्छाद्यते । एवं सर्व दृष्ट्वा एतदवसीयते यत् , तस्याः स ज्वरः प्राक् अनिदानवेदनेन-निदानज्ञानाभावहेतोः, महारम्भः-अतिशयवद्धमूलः, जातः-सम्पन्नः । अस्या ज्वरस्य किं मूलकारणमित्यविज्ञाय चिकित्सार्थं चन्दनपङ्कादिलेपनं पङ्कजदलाद्याच्छादनं बिसच्छेदादिसन्निधापनमित्याद्या उपायाः कृताः, तेभ्यश्चायमधिकं दृढमूल एव जातः, न निवृत्त इति भावः । अन्योऽपि शारीरिको ज्वरो निदानमविज्ञायोपचर्यते चेत् तदा वातिके ज्वरे पैत्तिकज्वरोपयुक्तौषधप्रयोगे ज्वरस्य यथा वृद्धिसम्भावना भवति, तथा प्रियविरहजन्मा ज्वरः प्रियसंयोगातिरिक्तोपचारैन शाम्यति, प्रत्युत वर्धत एवेति भावः । अत्र चायुर्वेदविज्ञानेनैव ताप-कम्प-श्वासाधिक्याद्या ज्वरोपद्वा विरहज्वरेऽप्युपनिबद्धास्तज्ज्ञाननैपुण्यं ध्वनयन्ति ॥ तथा "यदतनुज्वरभाक् तनुते स्म सा, प्रियकथासरसीरसमजनम् । सपदि तस्य चिरान्तरतापिनी, परिणतिर्विषमा समपद्यत ॥" [नैषधीये-४, २.] दमयन्त्या विरहावस्थावर्णनमिदम् , 'अतनुज्वरभाक् सा यत् प्रियकथासरसीरसमज्जनं तनुते स्म, तस्य चिरान्तरतापिनी विषमा परिणतिः समपद्यत' इत्यन्वयः । अतनुः-महान् यो ज्वरः, तं भजति-धारयति, अथ च अतनोःस्मरस्य, सम्बन्धी यो ज्वरः-तापः, तं भजति या सा दमयन्ती, यत् प्रियस्यनलस्य, कथैव सरसी, तस्या रसः-विप्रलम्भशृंगाररूपः, जलं वा तत्र, मजनम्अतिशयपरिशीलनम् , अथ च स्त्रानं तनुते स्म, तस्य चिरान्तरम्-अतिशयकालं यावत् , तापिनी-तापदायिनी, विषमा-दुःसहा, परिणतिः, अथ च चिरं बहुकालम्, आन्तरतापवती-हृदयदुःखदायिनी, विषमा परिणतिरिति सममुभयत्र समपद्यत । ज्वरयुक्तस्य कस्यचन सरोवरगाहनेन ज्वरस्य वृध्या बहुकालार्थ दुःखं वर्धते, एवं स्मरज्वरयुक्ता सा यत् प्रियकथाया वारं वारं श्रवणं करोति स्म, तेन तद्विषयकवासनावृद्ध्या तापस्य चिरकालस्थायित्वमभूदिति For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy