________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
यथा-
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० ८ ।
मार्जीरकरणनाम्ना कामशास्त्रे प्रसिद्धम्, अगुरुपङ्काङ्कम लिन इत्यनेन पार्श्वरतं करिपदं नाम बन्धविशेषो वा, चूर्णोद्वारीत्यनेन धेनुकनामा बन्धः, सालक्तकपद इत्यनेनोत्थितावस्थं रतम्, वली भङ्गा भोगैरित्यादिभिरतिशयोपमर्दपूर्वकं च रतं सूच्यते । तत्तद्बन्धानां लक्षणं रतिरहस्यादितोऽन्वेषणीयं जिज्ञासुभिः । एतादृशवर्णनेन वर्णयितुः कामशास्त्रनैपुण्यं ज्ञायते ॥
योगेति-चित्तवृत्तिनिरोध-ध्यानादिनिरूपकं शास्त्रं योगशास्त्रम्, तन्नैपुण्यं
"पृथुशास्त्र कथा कन्थारोमन्थेन वृथाऽत्र किम् ? |
अन्वेष्टव्यं प्रयत्नेन, तत्त्वज्ञै ज्योतिरान्तरम् ॥” [ चित्रभारते ]
'अत्र वृथा पृथुशास्त्रकथाकन्थारोमन्थेन किम् ?, तत्त्वज्ञैः आन्तरं ज्योतिः प्रयत्नेन अन्वेष्टव्यम्' इत्यन्वयः । विपुलशास्त्रकथासंभाराणां वारंवारमुद्भिरणनिगरणैः किमपि प्रयोजनं न सिद्ध्यति, तत्त्वज्ञैः, आन्तरं ज्योतिः - सर्वेषां हृदि प्रकाशमानं तेजः, अन्वेष्टव्यं ध्यानादिना दर्शनीयम्, योगमार्गेणैवैतत् संभवतीति पुण्यमत्र प्रकाशते ॥
आदिशब्देनान्येष्वपि शास्त्रेषु नैपुण्यमाक्षिप्तम् । तत्रायुर्वेदशास्त्रनैपुण्यं यथा"अङ्गे चन्दनपङ्क- पङ्कज-बिच्छेदावलीनां मुहुस्तापः शाप इवैष शोषणपटुः कम्पः सखीकम्पनः ।
श्वासाः संवृतसारहाररुचयः संभिन्नचीनांशुका, जातः प्रागनिदानवेदनमहारम्भः स तस्या ज्वरः ॥" [ पद्य कादम्बरी ]
४९
'अने शाप इव एष तापः, चन्दनपङ्क-पङ्कज-बिसच्छेदावलीनाम्, मुहुः शोषणपटुः, एष कम्पः सखीकम्पनः, श्वासाः संभिन्नचीनांशुकाः संवृतसारहाररुचयः [ इति ] तस्याः स ज्वरः प्रागनिदानवेदनमहारम्भो जातः' इत्यन्वयः । कस्याश्विनायिकाया विरहावस्थां वर्णयन् कविराह
तस्याः, अङ्गे-सामस्त्येनाऽविकल एव शरीरे, न तु केषुचिदवयवेषु, शाप इव - देवगुर्वाद्याक्रोशजनित इव अतर्कितोपनतत्वात् एष - प्रत्यक्षमनुभूयमानः, तापः, औष्ण्यं ज्वर इति यावत्, चन्दनपङ्कश्च पङ्कजानि च बिच्छेदाश्च तेषामावलीनां समूहानाम्, चन्दनपङ्कादिषु शरीरदाहशान्त्यर्थं मुहुर्मुहुर्दीयमा
का० ४
>
For Private And Personal Use Only