SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nanAmar ४८ सालङ्कारचूडामणौ काव्यानुशासने तस्य तच्छास्त्रपाण्डित्यं प्रकटयति । अत्र बिन्दु मणिमाला-शशप्लुतकशब्दाः कामशास्त्रे इत्थं परिभाषिताः "मध्येऽधरं रदद्वन्द्वसंदंशेनाल्पखण्डनात् । जातं दशनविच्छेद्यं बिन्दु वात्स्यायनोऽब्रवीत् ॥ रदनद्वयदंशेन मालाकाराश्च बिन्दवः । ऊोर्ललादे च कृता विन्दुमालेति तां विदुः ॥ सिताङ्ग्रर्दशनैः सर्वैर्युगपद् दंशना कृता । बिन्दुमालेव मुनिभिर्मणिमालेति सोदिता ॥" [रतिरत्नदीपिका] शशप्लुतकं यथा"लेखाः स्तनास्ये चिरला मयूरपदं नखाः सकलैर्निषक्ताः । शशप्लुतं पञ्च नखव्रणानि, सान्द्राणि तचुकचिह्नमाहुः ॥" [हरविजयमहाकाव्यटीकायां २७, ७० कस्यचित् ] इत्थं च, अधरमवष्टभ्य तन्मध्ये राजदन्ताभ्यां-मध्यस्थिताभ्यां प्रधानदन्ताभ्यां निष्पादितः क्षत:-बिन्दुः, दन्तावलिभ्यां निष्पादिता दशनाङ्कावलिःमणिमाला, चूचुकाग्रे सान्द्राणि-धनानि पञ्च नखवणानि-शशप्लुतकम् , इत्यव. सेयम् । प्रकृते स्वरतिकलाचातुर्यज्ञापनाय कामिना बिन्दु-मणिमाले सर्वदृग्गोचरे अधरे गले च कृते, शशप्लुतं तु दीर्घकालास्थायि परोक्षेऽपि कामुकक्रीडास्मारकमिति कृतम् । तथा च तस्य कामशास्त्रनैपुण्यं स्पष्टमेव । तथा च "क्वचित् ताम्बूलाक्तः क्वचिदगुरुपकाङ्कमलिनः, क्वचिचूर्णोद्गारी क्वचिदपि च सालक्तकपदः । वलीभङ्गाभोगैरलकपतितैः शीर्णकुसुमैः, स्त्रियाः सर्वावस्थं कथयति रतं प्रच्छदपटः ॥" [अमरुशतके १०८] क्वचिद्-एकत्र, ताम्बूलाक्तः-ताम्बूलरसेन रञ्जितः, क्वचित् , अगुरुपकाङ्कमलिन:-अगुरोः पङ्कस्य अङ्केन-चिह्नेन मलिनः, कचित् चूर्णस्य-कर्पूरादिशोदस्य उद्गारो-गलनं यत्र तथाभूतः, क्वचिदपि सालक्तकपदः-अलक्तकेन-लाक्षया सहितम् , पद-पादमुद्रा यत्र तथाभूतः, वल्यः-प्रच्छदपटस्य संकोचाः, तासां भङ्गास्तरङ्गाः, ता एव वा भङ्गास्तेषामाभोगैः-विस्तारैः, अलकेभ्यः पतितैः, शीर्णानि-इतस्ततो विकीर्णानि, कुसुमानि, तैः, उपलक्षितः, प्रच्छदपटः-आस्तरणवस्त्रम् , स्त्रियाः सर्वावस्थं रतं कथयति-प्रकटयति । ताम्बूलाक्त इत्यनेन न्युजरतं यच्च For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy