________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
AMAN
प्रकाशाभिधविवृतौ अध्या० १, सू० ८। कृत्वा सम्प्रति कैतवेन कलह मौर्येन्दुना राक्षसं,
भेत्स्यामि स्वमतेन भेदकुशलस्त्वेष प्रतीपं द्विषः ॥" [ मुद्रा०३।१३] चाणक्यः स्वभवनगत एकान्ते चिन्तयन्नाह-पर्वतसुतः-मलयकेतुः, प्रविष्टान्तरैः-वशीकृतशत्रुहृदयैर्भागुरायणादिभिर्मद्भुत्यैः, व्याप्तः-अन्तर्बहिश्च पूर्णः, सिद्धार्थकाद्याः स्पशाः-चारपुरुषाः, स्वनियोगसाधनविधौ-शत्रोः प्रकृतिप्रकोपं प्रधानपुरुषभेदं च साधयितुम् , उद्युक्ताः-संलग्नाः, सम्प्रति मौर्येन्दुनाचन्द्रगुप्तेन सह, कैतवेन-कृतकं कलहं कृत्वा, प्रतीपं राक्षसं सम्प्रति मलयकेतोः प्रधानामात्यम् , द्विषः-मलयकेतोः, भेत्स्यामि-तयोविरोधं सम्पादयिष्यामीत्यर्थः, एष राक्षसः, स्वमतेन तु भेदकुशलः । अयमाशयः-एष राक्षसः स्वमतेन चाणक्य चन्द्रगुप्ताऽत्स्यामीति जानातु, परं स न मया सह बुद्धिबले साम्यं यातुं योग्यो, मया सर्वं पूर्वमेव तथा प्रतिविहितं यथा तमेव मलयकेतोर्मेत्स्यामि, स च चन्द्रगुप्तान्मदीयं कृतकं कलहं ज्ञात्वा तावतैव कृतकृत्यम्मन्यो भविष्यतीति नाने किमपि समुद्योग विधास्यति, इत्थं च, मदीयं कार्य सेत्स्यत्येवेति, अत्र च राजनीतिगूढविषयाः साधु निरूपिता एवेति । किञ्च
"अणुरप्युपहन्ति विग्रहः प्रभुमन्तःप्रकृतिप्रकोपजः।। अखिलं हि हिनस्ति भूधरं तरुशाखान्तनिघर्षजोऽनलः ॥"
[कि० २ सर्गे ५१] अन्तःप्रकृतिप्रकोपजः, अणुरपि विग्रहः, प्रभु निहन्ति । हिः प्रसिद्धौ, प्रसिद्धमिदं यत्-तरुशाखान्तनिघर्षजोऽनलः, अखिलं भूधरं हिनस्ति इत्यन्वयः ।
कामेति-स्त्रीपुंभेदलक्षण-गुह्यक्रीडाप्रकार-वाजिकरणाद्यौषधादिवर्णनपरं शास्त्रं कामशास्त्रम् । तन्नैपुण्यं यथा
"अधरे बिन्दुः कण्ठे मणिमाला, कुचयुगे शशप्लुतकम् । तव सूचयन्ति सुन्दरि ! कुसुमायुधशास्त्रपण्डितं रमणम् ॥"
[कु० म० श्लो० ४०३] अत्र 'सुन्दरि !' इत्यस्य स्थाने 'केतकि' इति पाठो मूलपुस्तके, हे केतकि ! [सुन्दरि ! वा] अधरे बिन्दुः-दन्तक्षतविशेषः, कण्ठे मणिमाला, सापि दन्तक्षतविशेष एव, कुचयुगे-स्तनयोः, शशप्लुतकम् , अयं नखक्षतविशेषः; तव रमणं-प्रियं कुसुमायुधशास्त्रपण्डितं सूचयन्ति । यथास्थानं चिह्नविशेषदानेन
For Private And Personal Use Only