SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४६ सालङ्कारचूडामणी काव्यानुशासने इति लक्षणलक्षितस्य सन्धिविशेषस्य, स्थितिः - अवस्था यत्र तत्; उच्चैःउत्कृष्टा वृत्तयो भारत्याद्या यत्र तत् पुष्करस्य- मुखरूपसन्धेस्तूर्यवक्रस्य वाद्यविशेषस्य वा, " मतङ्गजस्य हस्ताग्रे व्योति खड्गफलेऽम्बुजे । जलभेषजयोस्तीर्थे तूर्यवक्त्रे च पुष्करम् ॥” [ शाश्वतकोशः ७९ ] व्यतिकरेण - सम्मिश्रणेन सहितम् ; सम्यक्साररूपो विष्कम्भो यत्र तत्, विष्कम्भावादौ नाट्येऽर्थोपक्षेपकत्वेन प्रयुज्यते, तल्लक्षणं तु"वृत्तवर्त्तिष्यमाणानां कथांशानां निदर्शकः । www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संक्षिप्तार्थस्तु विष्कम्भ आदावङ्कस्य दर्शितः ॥" [ ] इति, अयमाशयः -- भरतेनेमानि नाव्यशास्त्राङ्गानि लक्षितानि तेन तद्वाक्यस्य तदुक्तत्वम्, यामुनपयसश्च तत्तद्गुणयोगः स्वाभाविक एवेत्युभयोः साम्यम् । अति- अर्थशास्त्रं द्विधा भिद्यते - मुद्रादिविषयकत्वेन राजनीतिविषयकत्वेन च, तत्र मुद्राविषयनैपुण्यं यथा " संशयित सर्वलोका, धृतबहुरूपा नियतमूल्या | राजा हताऽन्धयित्री, रूपाजीवेव मुद्रेयम् ॥" [ साम्यम् । ] " इयं मुद्रा रूपाजीवेव - वेश्येव, कथंभूता ? संशयितसर्वलोका घृतबहुरूपा नियतमूल्या, राजाहृता अन्धयित्री च; वेश्याऽपि संशयितसर्वलोका-संशयमारोपितः सर्वो लोको यया तथाभूता, संशयितः सर्वो लोकोऽपि वा यस्यां तथाभूता वा भवति मुद्राऽपि तथैव तद्विषयव्यवहारे सर्वो लोकः संशयित एव तिष्ठति धृतानि बहूनि रूपाणि समयानुसारं कार्यानुसारं च यया तथाभूता वेश्या, मुद्राऽपि मानभेदेन बहुरूपा प्रसिद्धैव नियतं मूल्यं पणो यस्यास्तथाभूतावेश्या, सा हि प्रतिकार्यमात्मनो मूल्यं नियतरूपेण गृह्णाति; मुद्रायाश्च मूल्यं नियतमेव; वेश्या राजाहृता विनोदाय, राजादरेणैव हि मुद्राणां मूल्यं स्थिरीक्रियत इति साऽपि तथा; अन्धयित्री - कामोत्पादनेन विवेकादिनाशनपूर्वकमज्ञानरूपान्धकारजननी, मुद्राऽपि लोभोत्पादनेन तथाकार्यकारिण्येवेत्युभयोः " राजनीति नैपुण्यं यथा “मद्भृत्यैः किल नाम पर्वतसुतो व्याप्तः प्रविष्टान्तरैरुद्युक्ताः स्वनियोगसाधनविधौ सिद्धार्थकाद्याः स्पशाः । For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy