SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १ सू० ८ । नाट्येति नाव्यशास्त्रं भरतादिप्रणीतम्, तनिपुणतेत्थं निबद्धा "आतन्वत् सरसां स्वरूपरचनामानन्दिबिन्दूदर्य, भावग्राहि शुभप्रवेशकगुणं गम्भीरगर्भस्थिति । उच्चैर्वृत्ति सपुष्करव्यतिकरं संसार विष्कम्भकं, भिन्द्याद्वो भरतस्य भाषितमिव, ध्वान्तं पयो यामुनम् ॥” [ ] " " भरतस्य भाषितमिव यामुनं पयो वो ध्वान्तं भिन्द्यादिति सम्बन्धः । यामुनयसो भरतवाक्यस्य च सामान्यधर्मवर्णनमुखेन साम्यमित्यम् - सरसां स्वरूपरचनाम् आनन्दिबिन्दूदयम् आतन्वत् भावग्राहि शुभप्रवेशकगुणम्, गम्भीरगर्भस्थिति, उच्चैर्वृत्ति, सपुष्करव्यतिकरम्, संसारविष्कम्भकं च, यामुनपयःपक्षेसरसां - हूदानाम्, स्वरूपरचनाम्-आकृति निर्माणम्, आतन्वत्, आनन्दयति बिन्दूनां - शीकराणामुदयो यत्र तत्, प्रवाहवेगेन मध्ये मध्ये हृदानामाविर्भावो भवतीति स्वभावसिद्धम् ; भावा इव ग्राहा यस्मिंस्तत्, भावस्य - हृदयधर्मस्य देवादिविषयकरत्यादेः, ग्राहि- आकर्षकं वा, यदवलोकनेन हृदये तद्विषयको भावः समुदेतीति भावः शुभः प्रवेशकस्य - प्रवेशस्य स्वार्थे कः गुणः - पापापहरणमलशोधनस्वरूपो यस्य तत्; गंभीरा गर्भस्य-कुक्षेर्मध्यभागस्य स्थितियस्मिंस्तत्, नद्याः कूलसमीपे एव चाञ्चल्यम्, मध्यप्रदेशे जलस्य बाहुल्यात् स्थैर्यमेव वर्णनीयम्; उच्चैः-प्रवाहवेगादुच्चतरा, वृत्तिः स्थितिर्यस्य तत्, उच्चैः- उत्कृष्टतरा वृत्तिः - पापापहरणरूपो व्यापारो वा यस्य तत्; पुष्करस्य - कमलस्य व्यतिकरेणसम्बन्धेन शोभयेति यावत् सहितम्, संसारस्य विष्कम्भकम्-अवरोधकम्, एतत्स्नानात् क्षीणपापतया मुक्तिप्राप्तेः, संसारस्य पुनः पुनर्जन्ममरणादेवरोधो भवतीति भावः । भरतवाक्ये च स्वरूपरचना - वाक्यघटना सरसा भवति, बिन्दोः - नाव्याङ्क विशेषस्योदयः - उत्पत्तिः स्थितिरिति यावत्, आनन्ददायको भवति भावस्य ग्रहणशीलमिति समं पूर्ववत् भावाश्वात्र रत्यादय एव ये रसतामनापन्नाः; शुभप्रवेशकरूपो गुणो यत्र, अर्थोपक्षेपकत्वेनोक्तेषु विष्कम्भकादिपञ्चसु नाव्यापु द्वितीयः प्रवेशकाख्यो गुणः, अङ्गमिति यावत्; गम्भीरा गर्भस्य " ४५ "फलप्रधानोपायस्य प्राशुद्भिन्नस्य किञ्चन ॥ गर्भो यत्र समुद्भेदो हासान्वेषणवान् मुहुः ॥" [ सा० द० ६ ६५ ] For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy