SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सालङ्कारचूडामणौ काव्यानुशासने __ स धाता किमीहः-किमभिसमीक्ष्य, केन प्रयोजनेनेत्यर्थः । किंकायः कीदृशं शरीरमाश्रित्या, किमुपायः-केन सहकारिकारणेन, किमाधार:-क्क स्थितः, किमु. पादानः-केन समवायिकारणेन, कस्मिन् समवायिकारणे वा, त्रिभुवनं सृजति ? निरीहस्याशरीरस्य स्वभिन्नस्य कस्यचिदभावात् , सहकारिकारणान्तररहितस्य, त्रिभुवनस्यैव स्रष्टव्यतया निराधारस्य जगत्समवायिकारणरहितस्य च सृष्टिकर्तृत्वं कथमिति शङ्काशयः । कविरीश्वरमभिलक्ष्य कथयति-इति-पूर्वोक्तप्रकारेण, अतक्र्यैश्वर्यं त्वयि अनवसरदुःस्थस्तकः काँश्चित् हतधियो जगतो मोहाय मुखरयति । अयमाशयः-क्वचिद् वस्तुनि कारणान्तरासहकारेण कार्योत्पादनशक्तिमदृष्ट्वा हि त्वमेवमन्यत्र तर्कयसि किन्तु वस्तुशक्तेरीश्वरशक्तिर्विचित्रेति, ततस्तत्र तर्कावसर एव न । ईश्वरस्यानन्तशक्तित्वमित्थमुदयनाचार्येणोद्धृतम् "सर्वज्ञता तृप्तिरनादिबोधः, स्वतन्त्रता नित्यमलुप्तशक्तिः । अनन्तशक्तिश्च विभोर्विधिज्ञाः षडाहुरङ्गानि महेश्वरस्य ॥" [कुसुमाञ्जलि० ६ स्त०] एवं च जगतः कर्तरि अनन्तातक्यैश्वर्यशालिनि, अतिपरिसीमितशक्तिकवस्तुदर्शनमूलस्तर्को न प्रवृत्तिमहंतीति तदाशयः ॥ एवमेव वेदान्तागमनैपुण्यमिदमुदाहार्य गोकुलनाथोपाध्यायस्यामृतोदयनाटकस्थम् "मयि परमविभौ विशुद्धसत्त्वे, यदिह शरीरतदात्मतामधास्त्वम् । निगमपुरुष! तप्रतिक्रियायै, त्वयि निदधामि समस्तवस्त्वभेदम् ॥” इति । कुपित इव भक्त आह-हे निगमपुरुष! त्वम् , इह-संसारे, परमविभौ विशुद्धसत्त्वे मयि यत् शरीरतदात्मताम् , अधाः, तत्प्रतिक्रियायै [अहम् ] त्वयि समस्तवस्त्वभेदं निदधामि, अयमाशयः-अहं वस्तुतो विभुर्विशुद्धसत्स्त्ररूपश्चेति निश्चितम् , तत्र त्वया शरीरेण सह तादात्म्यबुद्धिः कारिता, इति महाननर्थः कृतः, परमविभोर्विशुद्धस्य परिच्छिन्नेनातिमलिनेन शरीरेण सह तादात्म्यं कथमुचितम् ? तच्चेत् त्वया कृतमेव तर्हि 'कृते च प्रतिकर्तव्यमेष धर्मः सनातनः' इति रीतिमनुसृत्य मयापि त्वयि न केवलं शरीराभेद एव; किन्तु समस्तवस्वभेदोऽप्यारोप्यत इति, शरीरेण सह जीवस्य तादात्म्यारोपो, ब्रह्मणि च जगतस्तद्विवर्तभूतस्यारोपितत्वमिति वेदान्तागमसिद्ध एवार्थो नैपुण्येनोपनिबद्धः । एवमन्यतर्केष्वपि नैपुण्यमुदाहर्तुं शक्यते। For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy