________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० ८ । तत्त्वमिति यथाभिलषितमाचरणीयं न कोऽपि साक्षी दण्डदायको वेत्यभिप्रायः । एतच्च चार्वाकमतस्यैवानुकूलम् । सांख्यीयमते यथा
"नासतो विद्यते भावो, नाभावो विद्यते सतः ।
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥" [भ. गी. २-१६] सांख्यमते सत्कार्यवादस्वीकारात् कारणात्मना अविद्यमानस्य वस्तुनो भावःसत्ता-उत्पत्तिः प्राकट्यं नास्ति, सतश्चाभावः-सर्वथा तदसत्ता न भवति, नन्वेवं लोके भावाभावे व्यवहार एवोच्छिद्यतेति चेत् ? अत्राह-उभयोरप्यनयोर्भावाsभावयोरन्त:-तत्त्वम् , तत्वदर्शिभिः-वस्तुतत्त्वसमीक्षकैरेव-दृष्टः । अयमाशयःभावाऽभावव्यवहारोऽवास्तविकाकृत्यादिपरिवर्तनकृत एव, कार्यात्म-कारणात्मान्यतररूपतया सर्वस्यैव वस्तुनः सर्वदा सत्त्वमिति । तस्य नैपुण्येन बन्धो यथा
“य एते यज्वानः प्रथितमसहो येऽप्यवनिपा, मृगाक्ष्यो याश्चैताः कृतमपरसंसारकथया । अमी ये दृश्यन्ते फलकुसुमनम्राश्च तरवो,
जगत्येवंरूपा विलसति मृदेषा भगवती" ॥ [ अत्र सर्वेषां यज्व-राज मृगाक्षी-तरु-गुल्मादीनां भौतिकत्वेन तत्र पार्थिवांशस्य सर्वेषु वैशेष्यात् सर्वेषां स्वकारणरूपत्वमेव वस्तुत इति सांख्यीयसत्कार्यवादानुगुण्येनोपनिबद्धम् ।
न्याय-वैशेषिकीयस्तों यथा जगत्कर्तृत्वेनेश्वरसाधकान् प्रति स किंसामग्रीक ईश्वरः कर्तेति पूर्वः पक्षः, निरतिशयैश्वर्यस्य तस्य न प्राकृतपुरुषवच्च कार्यसिद्धये सामग्यपेक्षेत्युत्तरः पक्षः, तस्य नैपुण्येन निबन्धो यथा
"किमीहः किंकायः स खलु किमुपायस्त्रिभुवनम् , किमाधारो धाता सृजति किमुपादान इति च । अतक्र्यैश्वर्ये त्वय्यनवसरदुःस्थो हतधियः, कुतर्कोऽयं काँश्चिन्मुखरयति मोहाय जगतः ॥ [महिम्नस्तोत्रे-५]
For Private And Personal Use Only