________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सालङ्कारचूडामणौ काव्यानुशासने विवक्षापूर्वाः शब्दास्तामेव विवक्षा सूचयेयुरिति बौद्वीयस्तर्कः । तत्र कौशलस्य काव्योपयोगो यथा
"भवतु विदितं शब्दा वक्तुर्विवक्षितसूचकाः, स्मरवति यतः कान्ते कान्तां बलात् परिचुम्बति । न न न म म मा मा मां स्पाक्षीनिषेधपरं वचो,
भवति शिथिले मानग्रन्थौ तदेव विधायकम्" [का. मी. ४ अ.] 'शब्दा वक्तुर्विवक्षितसूचका इति विदितं भवतु, यतः स्मरवति कान्ते कान्तां बलात् परिचुम्बति [ सति], [ यत् ] मां न न न म म मा स्पाक्षीः, [इति ], निषेधपरं वचः, तदेव मानग्रन्थौ शिथिले [ सति ], विधायकं भवति' इत्यन्वयः । अयमाशयः-शब्दस्य सङ्केतितोऽर्थो यः कश्चिद् भवतु, किन्तु वक्तुर्यो विवक्षितोऽर्थस्तमेव स सूचयति, अन्यथा कामिना बलात् परिचुम्बिता कान्ता निषेधपरशब्दानपि वदति, किन्तु त एव विधायकत्वेन कथं परिणमन्ते ? निषेधार्थकनकारादेः वारंवारं कथनेन निषेधनिषेध एव पर्यवसानस्य युक्तत्वेन निषेधार्थकशब्दस्य विधायकत्वमिति मानिन्या हृदयगताभिलाषाप्रकटननैपुण्योपलक्षणायोपनिबद्ध्यमानमपि बौद्धसिद्धान्तपरिपुष्टतयोक्तमिति तन्नैपुण्यद्योतकम् ।
चार्वाकस्तु-'भूतेभ्य एव विलक्षणसंयोगाच्चैतन्यमुत्पद्यते, यथा मदशक्तिरहितानामपि द्रव्याणां विलक्षणसंयोगवशात्-कालदेशविशेषादिसंयोगवशाद् मदशक्तियुक्तत्वं भवति, तथैव भूतेभ्य एव तेषु अविद्यमानमपि चैतन्यं विलक्षणसंयोगाजायते' इति मन्यते । तदाह सः
"तस्माद् भूतविशेषेभ्यो, यथा शुक्त-सुरादिकम् । तेभ्य एव तथा ज्ञानं, जायते व्यज्यतेऽथवा ॥” इति,
[शान्तरक्षितस्य तत्त्वसंग्रहे पृ. ५२० ] एवं चैतस्मिन् मतेऽनुशीलेते तस्य काव्योपयोगो यथा
"बहुविधमिह साक्षिचिन्तकाः, प्रवदन्त्यन्यमितः कलेवरात् । ___ अपि च सुदति ! ते सचिन्तकाः, प्रलयं यान्ति सदैव चिन्तया” ॥१॥
[का. मी. भ. ८ इति] हे सुदति ! इह साक्षिचिन्तका, इतः कलेवराद् अन्यं बहुविधं प्रवदन्ति, ते सचिन्तका अपि सदैव चिन्तया प्रलयं यान्ति, अतश्च, शरीरादन्यं न किमपि
For Private And Personal Use Only