SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू० ८। ३९ अयमर्थः हे मातः ! महेश्वरस्य-परमात्मनः, कुटुम्बिनि !-गृहिणि !, येषांसाधकानाम् , हृदि एतत्पद्यद्वयवर्णितस्वरूपेण स्फुरसि-त्वं ध्यायसे निदिध्यास्यसे इति यावत् , ते साधकाः, गर्भभाजः-जन्मादिदुःखभाजः, जातु-जातुचित् , न भवेयुः न भवन्ति, मध्यपदवीं-“पन्थानः पदवी सृतिः” इति वचनात् सुषुम्णामार्गम् , आविश्य-प्रविश्य, विद्युल्लतावलयविभ्रम-विद्युत्पुञ्जप्रकाशानुरूपविकाशम् , उद्वहन्ती-आदधाना, पञ्च पद्मानि-'स्वाधिष्ठानस्थषड्दल मणिपूरस्थदशदल अनाहतचक्रस्थितद्वादशदल विशुद्धिचक्रस्थषोडशदल आज्ञाचक्रस्थितद्विदल' इत्येवं पञ्च कमलानि, विदलय्य-विभिद्य, खम्-आकाशं "खं ब्रह्म" इति श्रुतेर्मस्तकस्थितपरमात्मानम्, अनवाना-व्याप्नुवाना, तन्निर्गतामृतरसैःशिरःस्थितशिवसन्निहितचन्द्रमण्डलस्रुतपीयूषैः, परिषिक्तगात्रा-सिक्तान्तनुः, शिव शक्त्योर्दाम्पत्यवासनायां मिथस्तयोः संघट्टजामृतैवेति तात्रिकोपासनारहस्यार्थः, विश्वं-क्षुद्रब्रह्माण्डकृत्यं चेतनात्मकशरीरं तत्कार्यजातं बृहद्ब्रह्माण्डं तत्कार्य वा, विरचय्य-निर्माय्य, यावन्तो ब्रह्माण्डे तावन्तः शरीरपिण्डे पिण्डब्रह्माण्डयोरैक्यमिति सिद्धान्तात् , पुनरपि तेन [ मध्यपदव्या ) सुषुम्णामार्गेण, विलयमिति स्थाने निलयमिति पाठः सम्यक्, निलयं-गृहं मूलाधारम् , अवाप्ताप्राप्ता, प्रथमे सरोजे-मूलाधारस्थचतुर्दलकमले, अहिराजसदृशी सुप्ता, इति येषामुपासकानां हृदये स्फुरसि निदिध्यासनेन उपासनया वा प्रत्यक्षवद् भाससे न जातु ते गर्भभाजः ॥ एतत्पद्यार्थज्ञानायादौ विज्ञेयम्गुद-मेदान्तराले संकोचविकाशात्मिका सार्धत्रिवलयाकारा सर्पसाम्यात् कुण्डलीरूपा स्वयम्भूलिङ्गवेष्टिनी काचित् शक्तिरस्ति, स्वयम्भूलिङ्गमधिष्ठाय मध्यवर्तिनी सुषुम्णानाम्नी, वामे इडा-चन्द्रनाडी, दक्षे पिङ्गलानाडी सूर्यात्मिका, एषा त्रिवली मेरुदण्डाख्या, मस्तकावधि सुषुम्णा, इडा-पिङ्गले तु नासिकावधिवर्तिन्यौ, एवमभितस्तत्र पादाङ्गुल्यौ हस्ताङ्गुल्यौ कौँ गुद-मेढ़े चक्षुषी नाभिं जिह्वामवधीकृत्य चतुर्दश नाड्यः सन्ति, मस्तकं परमात्मनः स्थानम् , स च तेजःस्वरूपः, त्रिवल्या मूलाधाराद् गुद-मेढ़ान्तरालात् स्वयम्भूलिङ्गत आरभ्य मस्तकावधिस्थितायाः सुषुम्णाया मध्ये षट् चक्राणि क्रमश ऊर्बोर्ध्वस्वरूपेण 'मूलाधारचक्र चतुर्दलस्वाधिष्ठानचक्र षट्दलमणिपुरचक्र दशदलस्वाधिष्ठानचक्र द्वादशदलविशुद्धचक्र षोडशदल-आज्ञाचक्रद्विदल' इति कमलानि भावनीयानि For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy