SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सालङ्कारचूडामणौ काव्यानुशासने सन्ति, चतुर्दशानां नाडीनां नामानि हस्तिजिहादीनि, यत्र जिह्वाग्रवर्तिनी सा सरस्वतीनाम्नी, तञ्चिह्न जिह्वामध्ये रेखाकृतिन तु रेखातिसौक्ष्म्यात् , १४ नाडीवर्धा अनन्तास्तरतमभावापन्नाः सूक्ष्माम्ता विस्तरभयादपेक्ष्या वर्णितुम्, तथा चोक्तम्-"चैतन्यं सर्वभूतानां शब्दब्रह्मेति मे मतिः । तत् प्राप्य कुण्डलीरूपं प्राणिनां देहमध्यगम् ॥ वर्णात्मनाऽऽविर्भवति गद्यपद्यादिभेदतः ।" इत्यादि, अर्थाद् मूलाधारस्था सा चेतनाशक्तिः प्रकाशात्मिका, 'स्वाधिष्ठानचक्र मणिपूरचक्र-अनाहतचक्र-विशुद्धिचक्र-आज्ञाचक्र, इति पञ्चपद्मपर्वा मध्यवर्तिनी सुषुम्णानाम्नी नाडी, मूलाधारस्थसार्धत्रिवलयाकारकुण्डलिन्याः साक्षान्निर्गमागममार्गः सरलः, कुण्डल्यन्तस्तेजःकोटिसूर्यप्रकाशतुल्यं कोटिचन्द्रशीतलं वर्णितम् , तस्य प्रकाशस्य सम्बन्धोऽधिकाल्पभावेन १४ नाडीपूक्तासु परम्परयैतावन्नाडी. सम्बद्धानन्तसूक्ष्मसूक्ष्मतरसूक्ष्मतमशिरासु, अतः शरीरव्याधिचैतन्यमिति शन्यागमवेदिनः ॥ पाञ्चरात्रागमनैपुण्यं यथा-- "नाद्यन्तवन्तः कवयः पुराणाः सूक्ष्मा बृहन्तो ह्यनुशासितारः । सर्वज्वरान् धन्तु ममाऽनिरुद्ध-प्रद्युम्न-संकर्षण-बासुदेवाः ॥" [ हरिवंशे बाण. युद्धप्रकरणे ] पाञ्चरात्र [वैष्णव ] तन्त्रे-“परमकारुणिको भक्तवत्सलो वासुदेवः परमपुरुषस्तदुपासकानुगुणतत्तत्फलप्रदानाय स्वलीलावशात् 'अर्चा-विभव-व्यूहसूक्ष्मा ऽन्तर्यामि, भेदेन पञ्चधाऽवतिष्ठते, तत्रार्चा नाम-प्रतिभादयो याः पूज्यन्ते लोकैः, विभवः-रामाद्यवतारः, व्यूहश्चतुर्विधः-वासुदेव-संकर्षण-प्रद्युम्ना-ऽनिरुद्धसंज्ञकः, सूक्ष्म-सम्पूर्णषड्गुणं वासुदेवाख्यं परं ब्रह्म, अन्तर्यामी-सकलजीवनियामकः, तत्र पूर्वपूर्वमूर्युपासनया पुरुषार्थप्रतिपन्थिदुरितनिचयक्षये सत्युत्तरोत्तरमूर्युपास्त्यधिकारः" इति प्रतिपादितम् । तत्र प्रतिपादिताश्चत्वारो व्यूहाः श्रीकृष्णावतारसमयेऽपि प्रसिद्धाः, वासुदेवोऽसौ स्वयमेव, संकर्षणस्तद्राता, प्रद्युम्नो वासुदेवपुत्रः, अनिरुद्धश्च प्रद्युम्नपुत्रः । एषां च ज्वरन्नत्वं हरिवंशीयबाणासुर संग्रामे प्रसिद्धम् , तत्र हि बाणासुरस्य कन्या उषा स्वप्ने कमप्यतिसुन्दरं युवानमपश्यत् , जाता च तद्गतभावा, उस्थिता तमपश्यन्ती विहला विलपन्ती चित्रलेखया सख्या तत्कारणं पृष्टा स्वप्नवृत्तान्तमाख्यातवती, सा च परमचतुराऽऽसुरीमायाभिज्ञा सकलसंसारवर्तियुवजनस्वरूपं चित्रे विलिख्य ‘पश्य कोऽत्र तवेप्सितः' इत्युवाच, तया च श्रीकृष्णपुत्रमनिरुद्ध स्वाभिमतं कथयन्त्या For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy