________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सालकारचूडामणौ काव्यानुशासने ___ इत्युक्तलक्षणे तन्त्रशास्त्रे चास्य शब्दस्य प्रयोगः । एवं च साधारणोऽप्ययमाप्तवचनवाची शब्दः क्वचिद् विशेषवचनतयाऽपि सङ्केतितः, तथा च तत्तन्मतसिद्धान्त आगमपदेनोच्यते। शिवभाषित आचारादिबोधक आगमः शैवागमस्तत्र नैपुण्यं यथा
"घोर-घोरतरातीतब्रह्मविद्याकलातिगः। परा-ऽपरपदव्यापी पायाद् वः परमेश्वरः ॥"
[काव्यमी० अ० ८ उद्धृतम् ] अत्र घोर-घोरतर-ब्रह्मविद्या-कलाशब्दास्तस्मिंस्तन्ने स्वातन्त्र्येण परिभाषिता इति तदागमनिपुण एवैवं निबन्ढे बोद्धं च शक्नोतीति वैचित्र्यमावहत्येव तद्विषयिणी व्युत्पत्तिः ॥ एवं बौद्धागमनैपुण्योदाहरणमिदम्
"कलिकलुषकृतानि यानि लोके, मयि निपतन्तु विमुच्यतां स लोकः । मम हि सुचरितेन सर्वसत्त्वाः परमसुखेन सुखावनी प्रयान्तु ॥"
अयं श्लोकस्तत्रवार्तिके कुमारिलभट्टेन बौद्धसिद्धान्तीयमहायानमार्गस्थानामुक्तिरूपेणोद्धृतः । लोके तत्तजनेषु, यानि कलिकलुषकृतानि [ दुःखानि ] सन्ति, तानि मयि निपतन्तु स लोको विमुच्यताम् , किञ्च, न केवलमसौ कलिकलुषविमुक्त एव भवतु, अपि तु सर्वसत्वा मम सुचरितेन परमसुखेन सुखावनी प्रयान्तु, इति । नागानन्दनाटके नायकस्य जीमूतवाहनस्यापीदृश्येवोक्तिदृश्यते । अत्र बौद्धा दशमी भूमिकां सुखावतीनामिकां स्वर्गस्थानीयां मन्यन्ते, सैवेह सुखावनीशब्देनोक्ता, एतच्च तदागमनैपुण्यं विना दुर्बोधमेव, दुर्वाच्यं च ।
शक्त्यागमनैपुण्यं यथा"आविश्य मध्यपदवी प्रथमे सरोजे, सुप्ताऽहिराजसदृशी विरचय्य विश्वम् । विद्युल्लतावलयविभ्रममुद्वहन्ती, पद्मानि पञ्च विदलय्य खमभुवाना ॥ १ ॥ तनिर्गतामृतरसैरभिषिक्तगात्रा, मार्गेण तेन विलयं पुनरप्यवाप्ता। येषां हृदि स्फुरसि जातु न ते भवेयुर्मातर्महेश्वरकुटुम्बिनि ! गर्भभाजः ॥"
[भुवनेश्वरीस्तोत्रे]
For Private And Personal Use Only