________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० ८।
३७
चारस्य लङ्घनं क्रियत इति वालिपथानुगमनमिव त्वयाऽऽरब्धम् , तन्नारब्धव्यम् । विपरीते दण्डमाह-येन पथा-बाणमार्गेण, हतो वाली गतो यमालयमिति शेषः, स पन्था मम बाणप्रहाररूपः, न सङ्कुचितः किन्तु विस्तीर्ण एव, भवादृशाः समयलजिनोऽसंख्यास्तेन पथा गन्तुं शक्नुवन्ति । इदमत्राकूतम्-त्वं "मया राज्यं प्राप्तम् , अतः परं सीतामार्गणेन मया किं लभ्यम् , रामः कुपितोऽपि कृतमैत्रीको मे किमपि नानिष्टं करिष्यति" इति मत्वा चेनिष्क्रियोऽसि, तर्हि वालिवत् त्वमपि मया दुष्टतया वध्य एव, न मयि वालिहननमात्रसामर्थ्यम् , एवम्भूताः कोटिशोऽपि तेन मार्गेण यमालयं प्रेषयितुं मया शक्यन्त इति विज्ञाय यदुचितं तदाचरेति ॥ एतस्यैवेतिहासप्रसिद्धवस्तुनो नैपुण्येन निबन्धो यथा--- __ "मदं नवैश्वर्यबलेन लम्भितं, विसृज्य पूर्वः समयो विमृश्यताम् । जगजिघत्सातुरकण्ठपद्धतिर्न, वालिनैवाहिततृप्तिरन्तकः ॥"
[जानकीह० स० १२, श्लो० ३६] नवैश्वर्यबलेन लम्भितं मदं विसृज्य पूर्वः समयो जानकीसमन्वेषणविषयको विमृश्यताम् , किञ्चैतदपि विमृश्यताम्-'जगजिघत्साऽऽतुरकण्टपद्धतिः, अन्तकः, वालिनैवाहिततृप्तिन' इति, जगतो-महतः संसारस्यैव, जिघत्सया भक्षयितुमिच्छया मातुरा कण्ठस्य पद्धतिः-मार्गो यस्य तादृशोऽन्तको-यमः, केवलवालिभक्षणेनैव, आहिता-साधिता तृप्तिर्यस्य तथाभूतो न । ऐश्वर्यमदं विसृज्य स्वप्रतिज्ञा स्मर्यताम् , अन्यथा वालिभोजनप्रज्वलिताग्नेर्यमस्य कण्ठपद्धत्या गमनं तव निश्चितमिति प्रत्यवेहि, इति पूर्वोक्त एवाशयो भङ्गयन्तरेण प्रतिपादितः ॥
आगमेति-अथ क्रमप्राप्त आगमः, तत्सामान्यलक्षणमाप्तवचनमागम इति, तथा चोक्तम्-"सिद्धं सिद्धैः प्रमाणैस्तु, हितं वात्र परत्र च ॥ आगम शास्त्रमाप्तानाम्" [
] इति, । तथा च शास्त्रमात्रमागमशब्देन लभ्यते, आगमस्याक्षरानुसारिणी च व्याख्येयमुपलभ्यते ।
"आगतं शिववक्त्रेभ्यो, गतं च गिरिजाश्रुतौ ॥ मतं च वासुदेवस्य, तस्मादागममुच्यते ॥" [
] इति, किञ्च, "सृष्टिश्च प्रलयश्चैव देवानां च तथाऽर्चनम् ।
साधनं चैव सर्वेषां पुरश्चरणमेव च ॥ षट्कर्मसाधनं चैव ध्यानयोगश्चतुर्विधः । सप्तभिर्लक्षणैर्युक्तं त्वागमं तद्विदो विदुः" ॥ [
For Private And Personal Use Only