________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सालङ्कारचूडामणौ काव्यानुशासने ऽस्तु, किन्तु त्रिदशा भीतास्तदभिमुखाञ्जलित्वप्रख्यापनाय तामेव दिशं प्रति स्वशिरसि करमर्पयन्तस्तिष्ठन्ति स्म । प्रातःसन्ध्यायां पूर्वाभिमुखं वन्दनम् , मध्याह्रसन्ध्यायामुत्तराभिमुखम् , सायंसन्ध्यायां च पश्चिमाभिमुखमिति परिपाटी, किन्तु तामनादृत्य तदनुकूलनाय तदाश्रितामेव दिशं प्रति प्रणेमुरिति तगीत्याऽऽचारलङ्घनं देवानामिति श्रीकृष्णोद्वेगवर्धनाय नारदमुखेन ख्यापितं कविना । स चायमर्थः पूर्वोक्तपुराणप्रसिद्ध एवोपनिद्ध इति पुराणनैपुण्यपरिचायकः ।
इतिहासेति “पुराणप्रतिभेद एवेतिहासः” इत्येके, अत्र 'इतिहास' इत्यक्षरानुगामी व्यतीतकथानिर्देश इत्यर्थोऽवगम्यते, स च द्विधा-परि (र). क्रिया-पुराकल्पाभ्याम् ।। यदाहुः-"परि(र)क्रिया पुराकल्प इतिहासगतिर्द्विधा ।। स्यादेकनायका पूर्वा द्वितीया बहुनायका ॥"
[काव्यमीमां० उद्धृतम् ] इति, तथा चैकनायक-बहुनायकभेदेनेतिहासद्वैविध्यमित्यायाति, तत्र प्रथमकोटौ रामायणम् , द्वितीयकोटौ महाभारतं च । तत्र रामायणं यथा
"न स सङ्कुचितः पन्था येन वाली हतो गतः ॥ समये तिष्ठ सुग्रीव ! मा वालिपथमन्वगाः ॥"
[रामायण-कि० ३४, १८] ज्येष्ठभ्रात्रा वालिना वानरराजेन हृतराज्यस्तदीयः कनिष्टो भ्राता सुग्रीवः श्रीरामस्य शरणं गतो 'वालिनं निहत्य मां राज्ये स्थापय कृपया, अहं सीतादेव्या मार्गणेन भवन्तमुपकरिष्यामि' इति प्रतिज्ञातवान् , भगवता रामेण च तमर्थमङ्गीकृत्य ‘वाली अनुजवधूपरिग्रहपातकितः' इति तं निहत्यासो सुग्रीवो राज्ये स्थापितः, एतावता कालेन च प्रावृट्समयः समायातो यत्र गमनागमनं निरुद्धम् , अतिक्रान्तायां प्रावृषि, राज्यभोगासक्तोऽसौ न सस्मार स्ववचनम् , न च तत्वरे रामकार्याय, ततो रामेण लक्ष्मणमुखेनायमादेशः प्रेषितस्तस्मै-हे सुग्रीव ! समये तिष्ठ, वालिपथं न अन्वगाः, येन [पथा] हतो वाली गतः स पन्थाः न सङ्कुचितः-नैकजनमात्रगम्यः । अयमाशयः-समयस्य-आचारस्य लङ्घनेनैव वाली मया हतः, त्वयाऽपि समयस्य-प्रतिज्ञायाः, अथवा मया सहाचरितुं योग्यस्या
For Private And Personal Use Only