SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू० ८ । पुराणेति-वेदगताख्यानोपनिबन्ध-तदुपबृंहणप्रधानः शब्दसन्दर्भः पुराणम् , तश्चाष्टादशधा, भागवते दशमस्कन्धे सप्तमाध्याये पुराणलक्षणमेवमुक्तम् "पुराणलक्षणं ब्रह्मन् ! शृणु शास्त्रानुसारतः । सर्गोऽस्याथ विसर्गश्च वृत्तिरक्षाऽन्तराणि च ॥ वंशो वंशानुचरितं संस्थाहेतुरपाश्रयः। दशभिर्लक्षणैर्युक्तं पुराणं तद्विदो विदुः॥ केचित् पञ्चविधं राजन् ! महदल्पव्यवस्थया ।" [महापुराणं दशलक्षणोपेतम् , पुराणं पञ्चलक्षणोपेतमित्याशयः] तानि यथा "सर्गश्च प्रतिसर्गश्च, वंशो मन्वन्तराणि च । वंशानुचरितं चेति, पुराणं पञ्चलक्षणम् ॥" [काव्यमीमांसायामुद्धृतम् ] इति । अत्रत्यसर्गादीनां लक्षणमपि तत्र विस्तृतं, विशेषजिज्ञासायां तत एव विशेयम् । तत्र यथा "हिरण्यकशिपुदैत्यो यां यां दिशमुदैक्षत । तस्यै तस्यै नमश्चक्रुर्देवा ऋषिगणैः सह ॥" [अग्निपुराणे ] पुराणवर्णितमिमं हिरण्यकशिपुवृत्तान्तं निपुणतया माधकविः काव्ये निबबन्ध, Mw यथा "स संचरिष्णुर्भुवनान्तरेषु यां, यदृच्छयाऽशिश्रियदाश्रयः श्रियाम् । अकारि तस्यै मुकुटोपलस्खलकरैस्त्रिसंध्यं त्रिदशैर्दिशे नमः ॥" [शिशुपालव० स० १, श्लो० ४६ ] श्रीकृष्णभवनमायातः सुरर्षिर्नारदः शिशुपालवधाय महेन्द्रप्रार्थनां प्रस्तुवन् , तेन सह तस्य [श्रीकृष्णस्य ] बहुजन्मार्जितं वैरं दर्शयन् हिरण्यकशिपुभूमिकात एवारब्धवान् कथयितुम् , तस्यैव वर्णनमिदम्-'श्रियामाश्रयः स भुवनान्तरेषु सञ्चरिष्णुः यदृच्छया यां [ दिशम् ] अशिनियत् , तस्यै दिशे मुकुटोपलस्खलत्करैः त्रिदशैः त्रिसन्ध्यं नमः अकारि' इत्यन्वयः। हिरण्यकशिपुना सर्वे देवाः पराजितास्तस्य वशवर्तिन इवाभूवन् , ततश्च कामचारी स किमपि प्रयोजनमनभिसमीक्ष्यैव कांचिद् दिशं प्रति प्रचलितश्चेत् सा काऽपि दिग् भवतु, कोऽपि च सन्ध्यासमयो For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy