SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सालङ्कारचूडामणी काव्यानुशासने एतदुक्तार्थवर्णनायां निपुणता यथा"चन्द्राद् बुधः समभवद् भगवान् नरेन्द्र-माद्यं पुरूरवसमैलमसावसूत । तं चाप्सराः स्मरवती चकमे किमन्यदत्रोर्वशीस्मितवशीकृतशक्रचेताः ॥" [काव्यमी० ८ मे उद्धृतम् ] चन्द्राद् भगवान् बुधः समभवत् , असौ, आद्यं नरेन्द्रं-प्रथमं चन्द्रवंशीयं राजानम् , ऐलम्-एलायाः पुत्रम् , पुरूरवसम्-एतनामकम् , असूत जनयामास, तं च अत्र, स्मितवशीकृतशकचेताः-स्वस्मितेन यया शक्रचेतोऽपि वशीकृतं सा, उर्वशीनामा अप्सराः स्मरवती सती चकमे-कामयाञ्चके, अनान्यत् किमित्यन्वयः । अत्र पूर्वोदाहृतश्रुतिविषयक एवार्थों विस्तरेण प्रतिपादितः, तथाप्रतिपादनं च श्रुत्यनुशीलनजन्यमेवेति तदनुशीलनमप्यावश्यकम् । स्मृतीति-श्रुत्यनुगता-तदर्थानुस्मरणरूपा स्मृतिर्धर्मादिचतुर्वर्गान्तर्गताचार-- व्यवहारादिप्रतिपादकः शास्त्रविशेषः, स चैवमादिः "बह्वर्थेष्वभियुक्तेन, सर्वत्र व्यपलापिना । सम्भावितैकदेशेन देयं यदभियुज्यते ॥" [ नारदस्मृतिः] कश्चिद् बह्वर्थहरणेऽभियुक्तः-हर्तृत्वेनारोपितः, किमपि न मया कृतमित्याचक्षाणो, यदि तेष्वर्थेषु कस्यचिदंशस्य हर्ता सम्यग् भावितः स्यात् , तदा अभियोक्त्रा यत् सर्वमभियुक्तं, तत् तेन देयमिति व्यवहारनिर्णायकोक्तस्मृत्यर्थः । तदनुशीलनजातनिपुणतया कश्चिदेवं कवयति "हंस! प्रयच्छ मे कान्तां गतिस्तस्यास्त्वया हृता ॥ सम्भावितैकदेशेन, देयं यदभियुज्यते ॥" [विक्रमोर्व० ४।१७] उर्वश्या हरणे तद्वियोगविक्लवो राजा, इतस्ततः पर्यटन् , हंसमालोक्याह-हे हंस ! मे कान्तां प्रयच्छ, त्वयैव मे कान्ता हृता, तां मे प्रत्यर्पय, केन लिङ्गेन स्वयैतज्ज्ञायत इति चेत् ? तदाह-तस्या गतिस्त्वया हृता, इयं त्वयि दृश्यमाना मन्दललिता गतिस्तस्या एव, ततश्च सा त्वयैव हृता, सा चेद् भवता न हृता स्याद् इयं गतिस्त्वयि न दृश्येत, दृश्यते चातस्त्वयैव सा हृता, तां प्रयच्छ, नेदं मम प्रलपितमपि तु स्मृतिसिद्धमित्याह-सम्भावितैकदेशेनेत्यादि, अतश्च न्यायतस्त्वयाऽर्पणीयैव मे कान्तेति तदाशयः । न चैतत् स्मृतिनैपुण्यं विना निबर्द्ध शक्यते। For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy