SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू० ८। क्षितौ यदि श्रीजिनेन्द्रशासनं न भवेत् [ तर्हि ] संसृतौ, उष्णिहीव [ उष्णि. क्छन्दसीव] रजो गुरुः, ध्रुवं स्यादित्यन्वयः । उष्णिक्छन्दसो लक्षणं च"जौं ग उष्णिक" [छन्दोनुशासने ४८ ] इति तत्र कृतम् , एवं च रगणजगणौ गुरुश्चेति तस्य छन्दसः स्वरूपम् , श्रीजिनेन्द्रशासनाभावे च सत्त्वस्यापचयापत्तौ रजोगुण एव, गुरुः–प्राधान्येन प्रतीतः स्यादिति ध्रुवमिति उष्णिक्छन्दोवत् संसृतिः स्यादित्यभिप्रायः । इदं च वर्णनं छन्दोऽनुशासनज्ञानोत्पन्नमेव । काव्यकरणाभ्यासमहाकविरचनापरिशीलनादिना जातेऽपि वृत्तानां सामान्यपरिचये छन्दोऽनुशासनेऽकृतश्रमा मात्रावृत्तादिपरिज्ञाने मुह्यन्त्येव, विशेषतः प्रस्तार-नष्टोद्दिष्ट मेरु-पताकादिविवेके, ततश्च तज्ज्ञानमावश्यकमेव । अभिधानकोशेति-अभिधानाना-नाम्नां, कोशः-संग्रहः, नाममालेत्यर्थः, सा चामरसिंह-हेमचन्द्रसूरिप्रभृतिसंग्रहीता, तज्ज्ञानं हि पदार्थनिर्णयद्वारा कान्यकरणे उपकारमादधाति, तदर्थानुशीलने च साहाय्यमारचयति । केचित्तु कोशस्यापूर्वाभिधानलाभार्थत्वमाहुः, तन्न-अप्रयुक्तस्य शब्दस्य अभिधाकोशानुसारेणापि प्रयोक्तुमशक्यत्वात् । नन्वेवं यदि प्रयुक्तमेव प्रयुज्यते, तर्हि पदस्य सन्दिग्धार्थत्वं कथमाशङ्कितमिति चेत् ? न-सामान्येनार्थमवगत्याप्रयुक्ते विशिष्टेऽर्थे प्रयुज्यमाने सति संशयो युक्त इत्याशयात् , यथा नीवीशब्दस्य सामान्यतो जघनवस्त्रप्रन्थिरिति कस्यचिन्निश्चयः, तत्र स्त्रियाः पुरुषस्य वेति संशयः सम्भवति, स च "नीविराग्रन्थनं नार्या जघनस्थस्य वाससः” । इति [ नाममाला] कोशज्ञानेनैवापोहितुं शक्यः, “स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च" इत्यमरकोशोऽपि [ ३ का. ना. २२२ ] तत्र निर्णायकः । एवं चार्थनिर्णयाय बन्धानुकूलतत्तदर्थवाचकशब्दोपस्थितये चाभिधानकोशः कवेरुपकाराधायकः, उक्तं च "वक्तृत्वं च कवित्वं च, विद्वत्तायाः फलं विदुः । शब्दज्ञानाहते तन्न, द्वयमप्युपपद्यते ॥" [ शब्दाश्च कोशेनैव सुज्ञेया इत्यभिधानकोशे नैपुण्यमावश्यकमिति । श्रुतीति-अपौरुषेयं वाक्यं श्रुतिः, तत्र निपुणताऽपि तद्बोधितार्थपरिज्ञानाय तदनुकूलवर्णनाय चावश्यकी, यथा"उर्वशी हाप्सराः पुरूरवसमैडं चकमे" इति श्रुतिः । [शतपथब्रा० का ११, अ. ५, ब्रा..] For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy