________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२
सालङ्कारचूडामणौ काव्यानुशासने तोऽहम् , इत्थं च व्यक्तित्रयमितो मे परिवार इति फलति, द्विगु:-धेनुद्वययुतः समपि [न निवृतोऽस्मि] यतः-मद्गृहे सततम्, अव्ययीभावःधनाभावादुदरपोषणादिकृते व्ययं कर्तुमसामर्थ्यात् तदभावः । ततः किमिच्छसीति चेत् ? अनाह-हे पुरुष! तत् कर्म धारय-कुरु, येनाहं बहुव्रीहिः-बहुधान्ययुतः स्यामिति । अत्र व्याकरणज्ञानवानेवैवं प्रयोक्तुमीष्टे, तज्ज्ञानवानेव चास्यार्थबोधे वैशिष्टयमवधारयेत् ।
कैश्चित् तु व्याकरणज्ञानफलतयाऽयं श्लोक उदाहियते"यैरेकरूपमखिलास्वपि वृत्तिषु त्वां पश्यदिव्ययमसंख्यतया प्रवृत्तम् । लोपः कृतः किल परत्वजुषो विभक्तेस्तैर्लक्षण तव कृतं ध्रुवमेव मन्ये ॥"
हे परमात्मन्! अखिलास्वपि वृत्तिषु- सृष्टि-स्थिति-लयादिषु, जगतः सर्वास्वेवावस्थासु, एकरूपम्-अपरिणामित्वाद् रूपान्तररहितम् , अन्यत्र [अन्य यसंज्ञकशब्दपक्षे-] अखिलास्वपि वृत्तिषु-प्रत्ययलोपसमासादिषु, एकरूपम्अनन्यथाकारम् । तथा च अव्ययम्-न व्येति क्षयमेतीति अव्ययम् , अन्यत्र एतनामकम् ; असंख्यतया-इयत्तारहिततया, प्रवृत्तं-विद्यमानम्, अन्यत्र संख्या-द्वित्वादिः, तद्रहिततया, प्रवृत्तं-व्यवहारपथमायातम् ; त्वां पश्यद्भिः, यैर्जनैः, परखजुषः-भिन्नत्वाश्रितायाः, 'एतद्भिन्ना इमे पदार्थाः' एतादृशबुद्धिमाश्रितायाः, अन्यत्र प्रत्ययत्वेनाव्यवहितपरत्ववत्याः, विभक्तेः-विभागकरणस्य, अन्यत्र स्यादिविभक्तेः, लोपः-उच्छेदः, अन्यत्र अदर्शनम् , कृतः, तैः-जनैः, तव लक्षणं-स्वरूपावधारणं, ध्रुवं-निश्चितमेव, कृतं विहितम् , इति मन्ये । “सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥” इत्यव्ययलक्षणम् । इह श्रुतिप्रसिद्ध परमात्मनि व्याकरणशास्त्रप्रसिद्धाव्ययव्यवहारारोपात् समासोक्तिरलङ्कारः । अत्र "अशब्दमस्पर्शमरूपमव्ययम्" इत्यादिकठोपनिषत्प्रसिद्ध वस्तुनि वैयाकरणमतप्रसिद्धाव्ययत्वव्यवहारारोपो व्याकरणानुशासनज्ञानं विना कर्तुमशक्य एवेति तज्ज्ञानमपेक्षितमेव ।
छन्दोऽनुशासनेति-छन्दोऽनुशासन-छन्दोविचितिः, छन्दसां लक्षणादिबोधकं शास्त्रमिति यावत् , तस्मिन्नैपुणं । यथा -
"उष्णिहीव संसृतौ स्याद् ध्रुवं रजोगुरुः । नो भवेद् यदि क्षितौ श्रीजिनेन्द्रशासनम् ॥ [छन्दोनु० २-४८ ]
For Private And Personal Use Only