SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू० । ३१ ऽनुशासना-ऽभिधानकोश-श्रुति-स्मृति-पुराणेतिहासा-ऽऽगम-तर्कनाट्या-ऽर्थ-काम-योगादिग्रन्थेषु । वच्छिन्नकार्यतानिरूपितकारणत्वविषयैव स्यात् । लोकस्य लोकवृत्तस्य चानुशीलनं स्वत एव सम्भवति, आबाल्याच्च तदनुष्टानं क्रमशो भवतीति प्राथम्येन तदुपाादनम् , ततः शास्त्राण्युपात्तानि, तान्यपि काव्यकरणे काव्यार्थज्ञाने च परमुपयुज्यन्त इत्येव नहि किन्तु तदनुशीलनलब्धनैपुण्येन कोऽपि तादृशोऽतिशय आधीयते काव्यकरणे ज्ञाने च, यः सचेतसां हृदयान्यतीवावर्जयति, लोकापेक्षया बहिरङ्गत्वात् काव्यापेक्षया चान्तरङ्गत्वात् शास्त्राणि मध्ये उपात्तानि, काव्येषु नैपुण्याय तेषु नैपुण्यस्याप्यावश्यकतेतिद्योतनाय वोपजीव्यत्वेन शास्त्राणां काव्यतः प्रथममुपादानमिति वा । पूर्वपूर्वतरमहाकविप्रणीतकाव्यनैपुण्येन हि का तेषां काव्यकारणशैली, व कथं वर्णनाविन्यास इत्यादि परिज्ञायत इति तेषु नैपुण्यमप्यावश्यकमेव । एतत्रितयविषयकतत्त्वज्ञतारूपा निपुणतैव व्युत्पत्तिः प्रतिभासंस्कारककारणद्वये प्रथमेति सूत्रार्थो व्याख्यातः । तत्र लोकव्यवहारा अपि देशकालादिभेदेन बहुधा भिन्नास्तानिहाप्रदर्याने तृतीयाध्याये प्रकृतिप्रस्तावे प्रदर्शयिष्यति । शास्त्राणि कानि? येषु नैपुण्यमर्जनीयमिति जिज्ञासायां तानि कानिचिन्नामतः संगृह्णाति-शब्द-च्छन्दोऽनुशासना-ऽभिधानकोश-श्रुति-स्मृतिपुराणेतिहासेत्यादिना, अनुशासनपदस्य द्वन्द्वान्ते श्रूयमाणतया शब्द-च्छन्दोभ्यामभिसम्बन्धः, तथा च शब्दानुशासनं च्छन्दोऽनुशासनं चेति गम्यते; तत्र शब्दानुशासनस्य सर्वशास्त्रोपकारित्वेन सर्वाभ्यर्हितत्वात् प्राथम्येनोपादानम् ; उक्तं च पूर्वाचार्यैः "व्याकरणमूलत्वात् सर्वविद्यानाम्" इति ।। शब्दानुशासनत्वं च प्रकृति-प्रत्ययविभागनिश्चयपूर्वकशब्दव्युत्पत्त्याधायकशास्त्रत्वम् , तज्ज्ञानेन हि प्रयोक्ता स्वेच्छयाऽर्थानुसंधानपूर्वकं पदानि प्रयोक्तुमीष्टे । न केवलं पदप्रयोग एव तस्य प्राकाम्यमपि तु तद्विषयार्थमादाय श्लेषादिनिर्माणपाटवमपीति निश्चितम् , तथाहि -- "द्विगुरपि सद्वन्द्वोऽहं गृहे च मे सततमव्ययीभावः । तत् पुरुष कर्म धारय, येनाहं स्यां बहुव्रीहिः ॥" [ क्वचित् 'द्वन्द्वो द्विगुरपि चाहम्' इति पाठः, स एव च सारल्येनार्थायोपयुज्यते, 'द्वन्द्वः-जायया सहितत्वेन परस्परं द्वित्ववान् , द्विगु:-गोद्वययुतः' इत्यर्थप्रतीतेः । प्रकृतपाठानुकूलोऽर्थश्च-द्वन्द्वेन-युग्मेन जाया-पुत्ररूपेण, सहि For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy