________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सालङ्कारचूडामणौ काव्यानुशासने व्युत्पत्तिं व्यनक्ति
लोक-शास्त्र-काव्येषु निपुणता व्युत्पत्तिः ॥ ८॥ लोके-स्थावर-जङ्गमात्मके लोकवृत्ते च, शास्त्रेषु-शब्द-च्छन्दो.
पूर्वत्र “व्युत्पत्यभ्यासौ वक्ष्यमाणौ” इत्युक्तम् , तत्र पूर्वोपस्थितत्वात् प्रथम व्युत्पत्तिमाख्यातुमाह-व्युत्पत्तिं व्यनक्तीति-व्यञ्जनं च विविधैः प्रकारेस्तस्याः प्रकटनमेव । लोक-शास्त्र-काव्येषु लोकश्च शास्त्राणि च काव्यानि चेति लोकशास्त्रकाव्यानि तेषु निपुणता व्युत्पत्तिरिति सूत्रार्थः । लोक्यते-दृश्यत इति व्युत्पत्त्या लोकशब्दो दृश्यमानसकलप्रपञ्चपरः, तदाह-स्थावर-जङ्गमात्मके इति-स्वाधीनक्रियाशून्यः स्थावरः, तदितरो जङ्गमः, तदात्मके-तत्स्वरूपे लोके, एतावानेव लोकः-स्थावरा जङ्गमाश्चेति । केवलं स्वरूपसतो लोकस्य दर्शनेन व्युत्पत्त्याधाने न विशेष उपकार इति लोकपदस्य लोकवृत्तपरत्वमप्यास्थायाहलोकवृत्ते चेति-लोकानां-स्थावर-जंगमात्मकानां, वृत्ते-चरिते , यद्यपि स्थावरे क्रियारूपं वृत्तं न सम्भवि तथापि द्रव्यत्वेन तत्रापि क्रियाश्रयत्वमुपपन्नमेव, क्रियायां कर्तृत्वमेव हि तत्र व्याहतम् । नन्वेवं लोकपदस्य लोकवृत्तार्थकत्वं कथमिति चेत् ? लक्षणयेति गृहाण । ननु पूर्वार्थस्य स्थावर-जङ्गमात्मकरूपस्य परिग्रहे किं फलमिति चेत् ? लोकवृत्तस्याधिकव्युत्पादकत्वेऽपि लोकस्वरूपावलोकनस्यापि तत्तत्स्वरूप-स्वभावादिविषये व्युत्पादकत्वात् । न चैवमर्थद्वयं लोक-लोकवृत्तात्मकमेकेन लोकपदेन कथमर्पणीयं 'सकृदुचरितः शब्दः सकृदेवार्थ गमयति' इति वचनविरोधादिति वाच्यम् , आवृत्याऽर्थद्वयबोधनस्य शक्यत्वात् , आवृत्तौ हि समानाकारं शब्दद्वयमङ्गीक्रियते, तस्य चार्थद्वयोपस्थापकत्वे बाधकाभावात् । काव्यप्रकाशकारेण च स्वकारिकास्थलोकपदं केवलं स्थावर-जङ्गमात्मकलोकवृत्तपरत्वेनैव व्याख्यातम् , तत्र लोकपदस्य तदर्थपरत्वं कथमित्याशङ्कायां प्रदीपकारेणोक्तम्-योगादुपचाराद्वेति, लोक्यत इति योगेन दर्शनविषयतया लोकवृत्तमप्याख्यातुं शक्यते, अस्य योगार्थस्य लोकलोकवृत्तोभयसाधारण्येन लोकवृत्तमात्रार्थबोधायोक्तम्-उपचाराद् वेति, उपचारो लक्षणा, सा चेहोपादानलक्षणा, वृत्तानन्त्याद् वर्णनानन्त्यं लक्षणायां प्रयोजनम् , अन्यथा लोकानां नियतत्वेन पूर्वेरेव वर्णितत्वात् , आधुनिकवर्णना एकधर्मा
For Private And Personal Use Only