SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू० ७ । तौ काव्यस्य साक्षात् कारणं, प्रतिभोपकारिणौ तु भवतः दृश्येते हि प्रतिभाहीनस्य विफलौ व्युत्पत्त्यभ्यासौ । माणौ-अग्रिमसूत्रद्वयेन निरूप्यमाणस्वरूपौ ताभ्यां संस्कार्येति पदं पर्यायेण निर्दिशति-संस्करणीयेति-संस्कारश्चेद्द व्युत्पच्यभ्याससंपादितगुणाधा विशेषविकास एव प्रतिभायाः । काव्यकारणनिर्वचनसमये व्युत्पत्यभ्यासयोः कार्यान्तरे विनियोगस्य "व्युत्पश्यभ्यासौ तु प्रतिभाया एवं संस्कार कौ” इति वाक्येनोक्ततया कारणकोटिबहिर्भाव उक्तः, तमेव पुनर्दार्याय शब्दान्तरेणाह अत एव न तावित्यादिना । अत एव प्रतिभासंस्कारे तयोरु पयोगादेव, तौ व्युत्पत्त्यभ्यासौ, काव्यस्य साक्षात् कारणान्तरव्यापाराव्यवधानेन, कारणं हेतुः, न भवत इति शेषः । क्वानयोरुपयोग इत्याह-तु किन्तु, प्रतिभोपकारिणौ प्रतिभासंस्कारकरौ, भवतः विद्येते । ननु किमिति काव्यं प्रति कारणतामपहाय तयोः प्रतिभासंस्कारकत्वमास्थीयत इति चेत् ? अत्राह - दृश्येते हि प्रतिभाहीनस्येत्यादि - हि यतः, प्रतिभाहीनस्य द्विविधपूर्वोक्तप्रतिभारहितस्य, व्युत्पत्यभ्यास विफलौ सत्काव्योत्पत्तिरूपफलरहितौ दृश्यते प्रत्यक्षमनुभूयते । ननु प्रतिभाहीनत्वं तस्यानुपहसनीय कार्यानुत्पत्यैवानुमेयं, नहि परात्मगता प्रतिभा साक्षात्कर्त्तुं शक्या, तत्र यथा सप्रतिभस्यापि कादाचित्कः सत्काव्यप्रसराभावो दृष्टः प्रतिबन्धकवशात् तथा तस्यापि सत्काव्यानुत्पत्तौ प्रतिबन्धकान्तरमेव न कुतः कल्प्यते, किमिति व्युत्पत्त्यभ्यासयोर्वैफल्यं निश्चीयत इति चेत् ? परात्मगताऽपि प्रतिभा तदीयवाकपाटवादिलौकिकसकलव्यवहारानुमेयेति सत्काव्यप्रसराभावदर्शनात् पूर्वमपि प्रतिभाहीनत्वेन निश्चितस्य पुंसः सततव्युत्पत्त्य - भ्यासरतस्यापि तादृशकाव्यानुत्पत्तेर्वैफल्यस्य निश्चयात्, तदुपपत्तये प्रतिबन्धकाष्टादिकल्पनाया अन्याय्यत्वात्, गौरवप्रस्तत्वाच्च । व्युत्पादितं चेदं रसगङ्गाधरकारेणेत्युक्तपूर्वम् । उक्तं च व्युत्पत्यभ्यासयोः प्रतिभासंस्कारकत्वं श्रीमजिनसेनाचार्येणाप्यलंकार चडामणौ २९ "व्युत्पत्यभ्याससंस्कार्या शब्दाऽर्थघटनाघटा । प्रज्ञा नवनवोन्मेषशालिनी प्रतिभाऽस्य धीः ॥ १९ ॥” इति, व्युत्पश्यभ्यासाभ्यां संस्कार्या शब्दार्थयोर्घटनायां घटनशीलानवनवोन्मेषशालिनी, अस्य-व - कवेः, प्रज्ञा- त्रैकान्तिकस्फूर्त्तिमतीधीः, प्रतिभा कथ्यत इति शेष इति तदर्थः ॥ ७ ॥ For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy