SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८ सालङ्कारचूडामणौ काव्यानुशासने पशमनिमित्ता, एवं दृष्टोपाधिनिबन्धनत्वात्तु औपाधिकीत्युच्यते । सा चेयं द्विविधापि प्रतिभा व्युत्पत्त्यभ्यासाभ्यां संस्कार्या ॥७॥ व्युत्पत्त्यभ्यासौ वक्ष्यमाणो, ताभ्यां संस्करणीया, अत एव न उपशमे सत्येव जायते इत्यर्थः । ननु तर्हि प्रथमायाः प्रतिभाया अस्याः का भिदेति चेत् ?-एवं दृष्टोपाधिनिबन्धत्वात् विति-तुशब्दः पूर्वसाद भेदमाह, अयमाशयः-यद्यपि तत्रात्र चावरणक्षयोपशमयोरपेक्षा तुल्या, तथापि तत्रावरणक्षयादेः कारणं किमपि न दृष्टमिति तत्र स्वाभाविकत्वमास्थीयते, इह च मन्त्रादिकारणं दृष्टमित्येवेयमोपाधिकीति कथ्यते । यद्यपि सहजायामपि आवरणक्षयादिकृते कारणान्तरमपेक्षितम् , आवरणक्षयादेः कार्यस्वेन कार्यमानस्य च कारणजन्यत्वात् , तत्र च कारणजिज्ञासायां जन्मान्तरीयवासनादिकमेव कल्पनीयम् , अन्यथा सर्वेषामेव तदुदयप्रसङ्गः, तस्यैव व्यावृत्तये दृष्टपदमुपात्तं वृत्ती, दृष्ट उपाधिर्निबन्धनं कारणं यस्य तस्य भावस्तस्मादित्यर्थः । एवं च साधारण्येन प्रतिभयोर्भेदाप्रतीतावपि सूक्ष्मेक्षिकया सहजौपाधिकरूपो भेदः स्वीकार्य एव पूर्वोक्तयुक्तरित्यायातम् । पण्डितराजजगन्नाथेनापि अदृष्टजन्यत्वेन व्युत्पत्त्यभ्यासजन्यत्वेन च प्रतिभायां द्वैविध्यमादृतमित्युक्तपूर्वम् , तन्मते मन्त्रादेरपि जनितायां प्रतिभायामदृष्टजन्यत्वमेव, मन्त्रानुष्ठानदेवताप्रसादादिभिर्हि अदृष्टमेव किमप्युत्पद्यते, येन प्रतिभा प्रकाशत इति तत्तात्पर्यम् ; एवं च यैव स्वमते सहजा प्रतिभा कथ्यते सैव तन्मतेऽदृष्टजन्येति व्यवह्वियते, या च मन्त्रादिदृष्टकारणजन्यौपाधिकीत्युच्यते, सा च व्युत्पत्त्यभ्यासजन्या तन्मते । यद्यपि भेद-कारणयोर्भदोऽस्ति, तथापि द्वैविध्यमात्रेण साम्यमुपलक्ष्य तन्मतस्येहोपन्यास इति विज्ञेयम् , तन्मतेऽदृष्टजन्यप्रतिभायां व्युत्पत्त्यभ्यासानपेक्षता, स्वमते च सहजायामपि प्रतिभायां संस्काराय व्युत्पत्यभ्यासयोरपेक्षेति च विशेष इत्यवसेयम् ॥ ६ ॥ व्याख्याता द्विविधाऽपि प्रतिभा, तत्र विशेषं वक्तुं ते उद्दिशति-सा चेयं द्विविधाऽपीति । सूत्रे “व्युत्पत्त्यभ्यासाभ्यां संस्कार्या" इत्युक्तम् , तत्र व्युत्पत्तिर्नाम-विशिष्टा उत्पत्तिः, अभ्यासश्च-पौनःपुन्यम् , तौ चानियतविषयौ न किमपि कार्य साधयितुमर्हाविति तयोविशिष्य स्वरूपवचनं विनन प्रकृतोपयोग इत्याशङ्कायामाह-व्युत्पत्त्यभ्यासौ वक्ष्यमाणाविति-वक्ष्या For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy