SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू० ६। २७ विर्भावः सा सहजा प्रतिभा, मात्रग्रहणं मन्त्रादिकारणनिषेधार्थम् । सहजप्रतिभावलाद्धि गणभृतः सद्यो द्वादशाङ्गीमासूत्रयन्ति स्म । द्वितीयामाह मन्त्रादेरौपाधिकी ॥६॥ मन्त्रदेवतानुग्रहादिप्रभवोपाधिकी प्रतिभा, इयमप्यावरणक्षयो स्फूर्तिवर्मना काव्यात्मना परिणमन्ति । अत्र ज्ञानावरणीयाद्यावरणमपि द्विविधमुदितमनुदितं च, तत्रोदितस्यावरणस्य क्षये सति, अनुदितस्य तस्योपशमे स्वकार्यविमुखत्वे च सति, पूर्वोक्तः प्रकाशस्याविर्भावो भवति, स एव प्रकाशः सर्वार्थप्रतिभासकः प्रतिभा सहजा नाम । ननु "आवरणक्षयोपशमात् सहजा" एतावदेवोच्यताम् , तावतैवोक्तार्थलाभे मात्रपदं व्यर्थमिति चेत् ? अत्राह-मात्रपदं मन्त्रादिकारणनिषेधार्थमिति-तथा च मन्त्रादिकारणजन्यौपाधिक्याः प्रतिभाया व्यावर्त्तनाथ मात्रपदमिति भावः । ननु किमियं सहजा प्रतिभा कचिद् दृष्टपूर्वा श्रुतपूर्वा च, उत शास्त्रमात्रविषय इत्याकाङ्क्षायामाह-सहजप्रतिभाबलाद्धीति- भगवतस्तीर्थङ्करस्य प्रधानशिष्या गणधरा उच्यन्ते, ते च प्रथमं तत्त्वं बुभुत्सवो भगवन्तं त्रिः प्रदक्षणीकृत्य तत्त्वं पप्रच्छुः, भगवता च प्रतिप्रदक्षिणं क्रमेण “उत्पद्यते वा, विगच्छति वा, ध्रुवति वा" इति त्रिपदीमभिहिताः, तावतैव क्षीणानल्पज्ञानावरणीयकर्माणः प्रतिभास्फूर्त्या सद्यो महत आगमराशेराचाराङ्गादीनि द्वादशाङ्गानि रचयामासुरिति हि जैनदर्शने प्रसिद्धमिति सूचयितुं हिः शब्दः प्रयुक्त ॥ ५ ॥ __ क्रमप्राप्तामोपाधिकी प्रतिमां लक्षयितुमवतरणिकामाह-द्वितीयामाहेति । सूत्रस्थमादिपदं देवतानुग्रहादिकारणविशेषपरमित्याह-देवतानुग्रहादीति । मन्त्रादेरित्यत्र पञ्चमी जन्यजनकभाव इत्याह-प्रभवेति । उपाधेर्जाता औपाधिकी । विशेष्यमाह-प्रतिभेति, तथा च मन्त्रादिजपप्रभवा, देवताऽनुग्रहप्रभवा, गुरुप्रसादजनिता वा प्रतिभा औपाधिकी प्रतिभेति कथ्यत इत्याशयः । मन्त्रादेः प्रतिभोत्पत्तौ कथमुपयोग इत्याशङ्कामपनुदन् आवरणक्षयोपशमयोरेव मन्त्रादेरुपयोग इत्याह-इयमप्यावरणक्षयोपशमनिमित्तेतिद्वितीयाऽपि प्रतिभा आवरणस्योदितस्य मन्त्रादिकृते क्षये, अनुदितस्य च तत्प्रयुक्ते For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy