SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २६ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सालङ्कारचूडामणी काव्यानुशासने zako साच सहजौपाधिकी चेति द्विधा, तत्र सहजामाहसावरणक्षयोपशममात्रात् सहजा ॥ ५ ॥ सवितुरिव प्रकाशस्वभावस्यात्मनोऽभ्रपटलमिव ज्ञानावरणीयाद्यावरणम्, तस्योदितस्य क्षयेऽनुदितस्योपशमे च यः प्रकाशाच्छन्दः शास्त्रादिशीलनरूपां व्युत्पत्तिं काव्यज्ञशिक्षयाऽभ्यासं च निर्दिश्य " इति त्रयः समुदिता न तु व्यस्तास्तस्य काव्यस्योद्भवे निर्माण समुल्लासे च हेतुर्न तु हेतवः” इति बुवाण उत्कृष्टकाव्यनिर्माण एव त्रयाणां समुदितत्वेन हेतुत्वमित्यभिप्रैतीति प्रतीमः । एवं चेदं पर्यवसितम् - केवला छन्दोबद्धता न काव्यपदप्रवृत्तिनिमित्तम्, लोकोत्तरचमत्कारकारिशब्दार्थोभयत्वमेव तथेति सर्वैरास्थेयमेव, तादृशशब्दार्थोपस्थापनाय प्रतिभैव शरणीकरणीया, तस्याः प्रकर्षाय व्युत्पत्त्यभ्यास कारणसंस्कारतयैव स्वीकायौं, विनापि तौ बहुश उत्तमकाव्यसृष्टेर्दृष्टस्वादिति ॥ ४ ॥ I एवं प्रतिभायाः कारणत्वं स्थिरीकृत्य तस्या विभागमाह - सा च सहजौपाधिकी चेति द्विधेति-सा-प्रतिभा, सहजा सह- शरीरेण समं, जायते तादृशीजन्मत एवान्तर्विद्यमाना; औपाधिकी- उपाधिभिः- आगन्तुकैर्मन्त्राद्यनुष्टानादिकारणैर्जनिता, इयमेव कैश्विदुत्पाद्येति कथ्यते, तदुक्तं रुद्रटेन wwwwww “प्रतिभेत्यपरैरुदिता, सहजोत्पाद्या च सा द्विधा भवति । पुंसा सहजातत्वादनयोस्तु ज्यायसी सहजा ॥[ रुद्रट. का० १.१६. .]" इति । तत्र यथोद्देशं प्रथमां लक्षयतीत्याह तत्र सहजामाहेति । सूत्रे 'आवरणक्षयोपशममात्रात् सहजा सा' इत्यन्वयः । सूत्रं व्याचष्टे - सवितुरिवेति - प्रकाशस्वभावस्य सवितुरभ्रपटलमिव प्रकाशस्वभावस्यात्मनो ज्ञानावरणीयादि आवरणम्, तस्यावरणस्योदितस्य क्षये सति, अनुदितस्योपशमे च सति यः प्रकाशस्याविर्भावः- प्रकटनं सा सहजा प्रतिभेति सम्बन्धः, अयमाशयःयथा प्रकाशस्वभावं सवितारं वियति वितता मेघमाला आच्छादयतीति तदीयः प्रकाशो न दृश्यते, तथैव ज्ञानस्वरूपतया स्वप्रकाशमप्यात्मानं दुष्कर्म - रूपं ज्ञानावरणीयादि तमस्तदीयां प्रकाशमयतामावृणोति, पुनश्च घनापगमे सति सवितु: प्रकाश इव ज्ञानावरणीयादिवमसि निवृत्ते तिरोधातुरभावादात्मनप्रकाशस्त्ररूपता प्रकटति; तस्यां च प्रादुर्भूतायां सर्वेऽर्थाः प्रतिभासमानाः सदर्थ For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy