SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू० ४ । २५. भ्यासजन्या च विलक्षणा; इति न परस्परं कार्यकारणभावव्यभिचारः, इति तन्मातसारांशः। रसगङ्गाधरटिप्पण्यां गङ्गाधरशास्त्रिणा तु-"प्रतिभा कारणम् , तत्र व्युत्पत्तिस्तु विभूषणम् , भृशोत्पत्तिकृदभ्यासः” इति वाग्भटीयवचनमेव प्रमाणयता विशिष्टं काव्यं प्रति त्रितयस्य प्रागुक्तस्यैकसामग्रीघटकत्वम् , तथाहि-शक्ति िविधा-उत्पादिका व्युत्पादिका च, आद्यया पदसंघातस्य योजनेऽपि द्वितीयस्या अभावे विनेयसमवेतविलक्षणवाक्यार्थधियोऽसंभवेन लोकोत्तरवर्णनानैपुण्यस्य कविगतस्याभावाद् विशिष्टकविकर्मतायास्तत्सत्त्व एव संभवात् तत्र द्वितीयैव निपुणता नाम, अभ्यासो लोकोत्तरत्वं प्रत्येवोपयुज्यते, तथा च लोकोत्तरवर्णनानिपुणताविशिष्टकविकर्मरूपकाव्यं प्रति त्रितयस्यैव कारणत्वमुचितम्" इत्युक्तम् , किन्तु नैतधुक्तम्-"रमणीयार्थप्रतिपादकः शब्दः काव्यम्" [रसगङ्गाधरे मा० १, सू. १] इति लक्षणेन लोकोत्तरचमत्कारयुक्तस्यैव काव्यतया काव्ये विशिष्टं साधारणमिति च प्रकारद्वयं न युक्तम् , विशिष्टस्यैव काव्यत्वात् , त्रितयकारणतावादिना प्रकाशकारेणापि 'अनुपहसनीयकाव्यं प्रति कारणभूता शक्तिः' इति कथितम् । तथा च विशिष्टकाव्यकरणशक्तिरेव प्रतिभेति काव्यं प्रति तस्या एव कारणत्वमुचितम् , प्रतिभाविकासं प्रति च युत्पत्यभ्यासयोरिति, तथा च पण्डितराजोक्तमेव विचारचारु, इति । अनेदं तत्त्वम्-पूर्वोक्तानां सर्वेषां मतानां समालोचनेन काव्यकारणविषये द्वयी विधा दृश्यते-त्रितयकारणतावादः प्रतिभामात्रकारणतावादश्च, तत्र त्रितय. कारणतावादिनः-दण्डि-जयदेव-मम्मटप्रभृतयः, तत्रापि दण्डी त्रिषु पृथक् पृथगपि कारणतां मन्यते, उत्तमकाव्यसम्पत्तय एव त्रिषु संभूय कारणत्वमित्यभिप्रैति, जयदेवोऽपि व्युत्पत्त्यभ्याससहकृतायाः प्रतिभायाः कारणत्वं मन्वानो न त्रितयस्य मिलितत्वेन साक्षात् कारणत्वमभिप्रैति, तथा च त्रितयकारणतावादिषु मुख्यो मम्मटाचार्यः, सोऽपि मुख्यतया प्रतिभामेव तत्कारणत्वेनाभिप्रेतीति तदीयग्रन्थालोचनया स्पष्टम् , तथाहि-“शक्तिः कवित्वबीजरूपः संस्कारविशेषः, यां विना काव्यं न प्रसरेत् , प्रसृतं वोपहसनीयं स्यात्" इति मन्वानोऽनुपहसनीयकाव्योत्पत्तये शक्तिमेव प्रतिभापदव्यपदेश्यां कारणमाह, अग्रे च लोकवृत्त For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy