________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४
सालङ्कारचूडामणौ काव्यानुशासने काव्यमीमांसायां राजशेखरेण चतुर्थेऽध्याये शक्तरेव कारणत्वं व्यवस्थापितम् , प्रतिभा च शक्तितो भिन्नेति च तन्मतम् , तश्चाप्राकरणिकत्वान्न विवेच्यते।
पण्डितराजजगन्नाथस्तु
"तस्य कारणं कविगता केवला प्रतिभा, सा च काव्यघटनानुकूलशब्दार्थोपस्थितिः, तद्गतं प्रतिभात्वं च काव्यकारणतावच्छेदकतया सिद्धो जातिविशेषः, उपाधिरूपं वा, तस्याश्च हेतुः क्वचिद् देवताप्रसादादिजन्यमदृष्टम् , क्वचिञ्च विलक्षणव्युत्पत्ति-काव्यकरणाभ्यासो, न तु त्रयमेव, बालादेस्तौ विनापि केवलाद् महापुरुषप्रसादादपि प्रतिभोत्पत्तेः । न च तत्र तयोर्जन्मान्तरीययोः कल्पनं वाच्यम्, गौरवान्मानाभावात् , कार्यस्यान्यथाऽप्युपपत्तेश्व, लोके हि बलवता प्रमाणेन आगमादिना सति कारणतानिर्णये पश्चादुपस्थितस्य व्यभिचारस्य वारणाय जन्मान्तरीयमन्यथानुपपत्या कारणं धर्माधर्मादि कल्पते, अन्यथा तु व्यभिचारोपस्थित्या पूर्ववृत्तकारणतानिर्णये भ्रमत्वप्रतिपत्तिरेव जायेत, नापि केवलमदृष्टमेव कारणमित्यपि शक्यं वदितुम् , कियन्तञ्चित् कालं काव्यं कर्तुमशक्नुवतः कथमपि संजातयोर्युत्पत्त्यभ्यासयोः प्रतिभायाः प्रादुर्भावस्य दर्शनात् , तत्राप्यदृष्टस्याङ्गीकारे प्रागपि ताभ्यां तस्याः प्रसक्तेः, न च तत्र प्रतिभायाः प्रतिबन्धकमदृष्टान्तरं कल्प्यमिति वाच्यम् , तादृशानेकस्थलगतादृष्टद्वयकल्पनापेक्षया क्लप्तव्युत्पत्त्यभ्यासयोरेव प्रतिभाहेतुत्वकल्पने लाघवात् , अतः प्रागुक्तसरणिरेव ज्यायसी । तादृशादृष्टस्य तादृशव्युत्पत्यभ्यासयोश्च प्रतिभागतं वैलक्षण्यं कार्यतावच्छेदकम् , अतो न व्यभिचारः, प्रतिभात्वं च कवितायाः कारणतावच्छेदकम् , प्रतिभागतवैलक्षण्यमेव वा विलक्षणकाव्यं प्रतीति, तत्रापि न सः; न च सतोरपि व्युत्पत्त्यभ्यासयोर्यत्र न प्रतिभोत्पत्तिस्तत्रान्वयव्यभिचार इति वाध्यम् , तत्र तयोस्तादृशवैलक्षण्ये मानाभावेन कारणतावच्छेदकानवच्छिन्नत्वात् पापविशेषस्य तत्र प्रतिबन्धकत्वकल्पनाद् वा न दोषः । प्रतिबन्धकाभावस्य च कारणता समुदितशत्यादित्रयहेतुतावादिनः शक्तिमानहेतुतावादिनश्चाविशिष्टा, प्रतिवादिना मन्त्रादिभिः कृते कतिपयदिवसव्यापिनि वास्तम्भे विहितानेकप्रबन्धस्यापि कवेः काव्यानुदयस्य दर्शनात्" [ रसगङ्गाधरे प्रथमानने ] इत्याह ।
एवं चायमपि केवलां प्रतिभामेव काव्ये कारणं मन्यते, तस्यां च कारण क्वचिदृष्टम् , क्वचिद् व्युत्पत्त्यभ्यासौ, तत्रादृष्टजन्या प्रतिभा विलक्षणा, व्युत्पत्त्य
For Private And Personal Use Only