________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १ सू० ४ ।
"
तस्य कल्प्यताम्, वस्तुस्वरूपस्य निर्णीतत्वे नाम्नि विवादस्याकिञ्चित्करत्वात्, तथा च शक्तेः कारणत्वमावश्यकम् । व्युत्पत्त्यभ्यासयोस्तु प्रत्यक्षनिर्णीतमेव कारणत्वम् । एषां च परस्परापेक्षत्वेन दण्ड-चक्रादीनामिव घटं प्रति काव्यं प्रति त्रयाणां मिलितानामेव कारणत्वम्, न तु तृणा - ऽरणि- मणिन्यायेन पृथक् पृथक् कारणत्वमिति ध्वनयितुमेव कारिकायां हेतुरित्येकवचनमुक्तम्, एकधर्माविच्छिन्नकार्यतानिरूपितकारणत्वबोधकत्वात् । ननु मन्त्रादिजपजन्यकाव्य निर्माणशतौ सत्यां निपुणता ऽभ्यासयोरभावेऽपि काव्योत्पत्तिर्दृष्टेति तयोः कारणत्वं कथमिति चेत् ? न तत्र जन्मान्तरीयायाः पद- तदर्थादिवासनारूपाया निपुणतायाः पदतदर्थस्मारकतयोपयोगस्यावश्यस्वीकार्यत्वात् एवमभ्यासोऽप्यन्वयव्यतिरेकानुविधानसिद्धो जन्मान्तरीय एवं कल्प्य इति सिद्धान्तात्, यथा मन्त्राद्यनधीनशिशुकाव्ये शक्तयंशेऽपि जन्मान्तरीयशक्तेरपि कल्पनं तद्वद् मन्त्राधीनशक्तिस्थले जन्मान्तरीययोर्व्युत्पत्यभ्यासयोः कल्पनमिति निष्कर्षः ।
रुद्रटोऽपि शक्त्यादित्रयस्य कारणतामाह, तथाहि
www
२३
" तस्यासारनिरासात्, सारग्रहणाच्च चारुणः करणे ।
.1"
त्रितयमिदं ज्याप्रियते, शक्तिर्व्युत्पत्तिरभ्यासः ॥ रुद्र० का ० १.१४. चारुणः काव्यस्य करणे, असारनिरासात् सारग्रहणाच्च 'शक्तिर्व्युत्पत्तिरभ्यासः ' इदं त्रितयं व्याप्रियत इत्यर्थः ।
वामनस्यापि प्रतिभैव कारणत्वेन संमता । तथाहि तेनोक्तम् - "कवित्वबीजं
wwwwwwwww
प्रतिभानम्" [ काव्यालङ्कारसूत्रे - अधिकरण १. अ०३, सू. १६ ] कवित्वस्य बीजं - संस्कारविशेषः कश्चित् येन विना काव्यं न निष्पद्यते निष्पन्नं वा हास्यायतनं स्यात्" इति । नरेन्द्रप्रभसूरिणाऽलङ्कारमहोदधौ
"कारणं प्रतिभैवास्य, व्युत्पत्यभ्यासवासिता ।
बीजं नवाङ्कुरस्येव, काश्यपी - जलसङ्गतम् " [ त-१, का० ६ ]
इत्युक्तम्,
तथा
चैतन्मतेन 'व्युत्पत्त्यभ्याससंस्कृतप्रतिभायाः कारणत्वमित्यायाति, तथा च प्रतिभा मुख्य कारणम्, व्युत्पत्त्यभ्यासौ प्रतिभायाः संस्कारकतया सहकारिकारणे इति तदाशयः । तथा चास्य स्वमतेन साभ्यम् ।
For Private And Personal Use Only