________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२
सालङ्कारचूडामणौ काव्यानुशासने
मम्मटेन तु काव्यप्रकाशे“शक्तिनिपुणता लोक-शास्त्र-काच्याद्यवेक्षणात् ।
कान्यज्ञशिक्षयाऽभ्यास इति हेतुस्तदुद्भवे ॥ [१.३.]" इत्युक्तम् , प्रदीपकारगोविन्दठक्कुरेणेत्यमियं कारिका व्याख्यायि-"शक्तिः कवित्वबीजरूपो देवताप्रसादादिजन्मा संस्कारविशेषः प्रतिभापदव्यपदेश्यः; तस्याः कारणतायां किं मानमिति चेत् ? निपुणतादिकारणान्तरसद्भावेऽप्यनुपहसनीयकाव्यप्रसरस्य कार्यस्य व्यतिरेकः, स च विशेष्यस्य काव्यप्रसरस्य विशेषणस्यानुपहसनीयत्वस्य वा व्यतिरेकात् सर्वत्रैवाविशिष्टः । न चैवं कारणान्तरं किंचिदायातु, न तु शक्तिरिति चेत् ? प्रसिद्धातिरेकिण्येव तद्धतौ शक्तिव्यपदेशात् । लोकः-स्थावर-जङ्गमात्मकलोकस्य वृत्तं, योगादुपचाराद्वा, धर्मिमात्रपरामर्शस्य व्युत्पत्त्यनाधायकत्वात् । शास्त्र-छन्दःशास्त्रादि, काव्य-महाकविप्रणीतं रघुवंशादि, आदिग्रहणादितिहासादि, तेषां विमर्शनाद् व्युत्पत्तिः-निपुणता । काव्यज्ञशिक्षा-काव्यं कर्तुंरसानुगुणतया प्रबन्धादौ घटयितुं च ये जानन्ति तदुपदेशः, तया, करणे योजने च पौनःपुन्येन प्रवृत्तिरभ्यासः । इतिशब्दो मिलितोपस्थापनाय, अन्यथा तद्वैयर्थ्यमेव स्यात् । एवं च काव्यस्योद्भवः-उत्कृष्टोत्पत्तिः, तया कार्येण मिलितानामुपधानम् , दण्ड-चक्रादीनामिव घटेन, न तु मिलितत्वेन कारणतैवेति भ्रमः कार्यः" इति।
अयमाशयः-शक्नोति काव्यं कर्तुमनयेति व्युत्पत्त्या देवताराधनादिजन्या विलक्षणा वासना संस्कारविशेषो वा प्रतिभापदव्यपदेश्यः लोकवृत्त-छन्दःशास्त्रादिविमर्शजन्या व्युत्पत्तिः, पूर्वेषां काव्यज्ञानां गुरूणामुपदेशेन पौनःपुन्येन योजनाऽभ्यासश्चति त्रयः समुदिता दण्ड-चक्रादयो घटादीनामिव काव्यस्य हेतु:-कारणम् । ननु निपुणतयाऽभ्यासेन च काव्यं कर्तुं शक्यत एवेति किमिति शक्तिपदवाच्यं वस्त्वन्तरं कारणं कल्प्यत इति चेत् ? न-अनुपहसनीयकाव्यप्रसराय तस्य कारणत्वस्वीकारस्यावश्यकत्वात् , क्वचित् तां विना काव्यं प्रसरत्येव नहि, कदाचित् प्रसृतमप्युपहासास्पदतां लभते, उभयथाऽप्यनुपहसनीयकाव्यप्रसराभावः फलित एव । नन्वेवमर्थापत्त्या किञ्चन कारणान्तरमायातु, शक्तिरेव कुतः कारणत्वेन कल्प्यत इति चेत् ? न-यतो यत्र वचन वस्तुन्ययं विशेषोऽस्ति तदेव वयं शक्तिपदेन व्यपदिशामः, भवतां यदि तत्र विद्वेषस्तर्हि नामान्तरं
For Private And Personal Use Only