________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रकाशाभिधविवृतौ अध्या० १, सू० ४ ।
वाग्भटस्तु - " प्रतिभा कारणं तस्य व्युत्पत्तिस्तु विभूषणम् ।
wwwwww
Acharya Shri Kailassagarsuri Gyanmandir
भृशोत्पत्तिकृदभ्यास इत्याद्यकविसङ्कथा ॥” [ वाग्भटालङ्कारे १.३ ]
wwwwwwww..
>
इत्याह, तस्य - काव्यस्य, प्रतिभा कारणम्, व्युत्पत्तिस्तस्य विभूषणम्, अभ्यासश्च भृशोत्पत्तिकृत् इति, आद्यानां कवीनां संकथा - संभूयैकमत्येन कथनमुपदेशः, इति तदर्थः । एवं च तन्मते काव्यस्य कारणं प्रतिभैव, शास्त्रादिविषयिणी व्युत्पत्तिस्तु तां विभूषयति- चमत्करोति, अभ्यासश्च भृशं - बाहुल्येन झटिति च काव्योत्पत्तौ कारणमित्यायातम्, तथा चायं व्युपस्यभ्यासयोरतिशयाधायकत्वमाचार्य मतदाह ।
आनन्दवर्धनाचार्यस्तु —
AMARA
" सरस्वती स्वादुतदर्थवस्तु निःस्यन्दमाना महतां कवीनाम् । आलोक सामान्यमभिव्यनक्ति परिस्फुरन्तं प्रतिभा विशेषम् ॥”
wwwwwww
[ ध्वन्यालोके १.६. ] इति ब्रुवाणः स्वादुवस्तुस्फुरणहेतुं प्रतिभामेव महाकवित्वस्यापि कारणमाह । पीयूषवर्षजयदेवस्तु चन्द्रालोके -
२१
"प्रतिभैव श्रुताऽभ्याससहिता कवितां प्रति ।
हेतुर्मृदम्बुसम्बद्धबीजव्यक्तिलतामिव ॥ [ १६ ]"
3
,
लतां प्रति धरणि-सलिलसम्बद्धबीजमिव श्रवणा ऽभ्याससहिता प्रतिभा कवितां प्रति हेतुरिति तदाशयः । तथा च लतायां यथा न केवलस्य बीजस्य कारणत्वम्, अपि तु धरणि-सलिलसंयोगोऽपि तत्रावश्यमपेक्षित एवेति मुख्यतया बीज इव प्रतिभायामेव कारणत्वं श्रवणाऽभ्यासौ तु सहकारिकारणे इति । यद्यपि धरण-सलिलयोगं बिना बीजेन यथा लता नोत्पद्यते तथा श्रुताऽभ्यासाभ्यां विना कविता नोत्पद्यत इत्यर्थवर्णने त्रिष्वपि सहैव कारणताऽऽयाति, तथापि धरणि-सलिल योगस्य साधारण्येनाङ्कुरमात्रं प्रति सहकारितायाः कृप्ततया तत्तदङ्कुरं प्रति तत्तद्वीजस्यैव मुख्यं कारणत्वं कल्पनीयमिति श्रुताऽभ्यासयोः कार्यान्तरं प्रत्यपि सहकारितया दृष्टत्वेन कवितां प्रत्यपि तयोः सहकारित्वमेव मन्तव्यम्, प्रधानकारणत्वं तु प्रतिभाया एवेति सूचनायैव 'प्रतिभैव' इत्येवकारः प्रयुक्त इति प्रतिभाति ।
For Private And Personal Use Only