________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१८
Acharya Shri Kailassagarsuri Gyanmandir
सालङ्कारचूडामणी काव्यानुशासने
शब्दप्राधान्यमाश्रित्य तत्र शास्त्रं पृथग्विदुः । अर्थे तत्त्वेन युक्ते तु वदन्त्याख्यानमेतयोः ॥ द्वयोर्गुणत्वे व्यापारप्राधान्ये काव्यगीर्भवेत् ॥ इति ॥ [ ] धनमनैकान्तिकं व्यवहारकौशलं शास्त्रेभ्योऽप्यनर्थनिवारणं
>
रोगिणः सति फले विशेष लेशस्याप्यभावे सितशर्करां परित्यज्य कटुकौषधे कुतः प्रवृत्तिर्जायेत, तुल्ये लाभे मनोरमोपायस्य सर्वप्रियत्वात् । ननु "वयं बाल्ये डिम्भांस्तरुणिमनि यूनः परिणतौ, अपीप्सामो वृद्वान् परिणयविधिस्तु स्थितिरियम् । त्वयाऽऽरब्धं जन्म क्षपयितुममार्गेण किमिदं, न नो गोत्रे पुत्रि ! क्वचिदपि सती लाञ्छनमभूत्" ॥ १ " [ ] इत्यादिकाव्यमसदुपदेशकं दृश्यते, व्युत्पत्तिरपि च तस्मात् तादृग्विषया सम्भाव्यते, ततश्च तदनुपदेश्यत्वमायातम्, सत्यम्, अस्त्यमुपदेशः, किन्तु निषेध्यत्वेन य एवंविधा विधयः परस्त्रीषु पुंसां सम्भवन्ति तानवबुध्य परिहरेदिति कवीनां भावः । प्राधान्यविषये प्राचां संवादमाह - शब्दप्राधान्यमाश्रित्येति-यत्र शब्दस्य प्राधान्यं तत् शास्त्रं वेदागमादि, अर्थे तु तत्त्वेन प्राधान्येन युक्ते सति, आख्यानम् इतिहासादि, वदन्ति एतयोर्द्वयोः शब्दार्थयोः, गुणत्वे रसं प्रत्युपसर्जनभावे व्यापारप्राधान्ये व्यञ्जनात्मकव्यापारस्य संयोजनात्मकस्य विभाचादिमेलनस्वरूपस्य वा व्यापारस्य, मुख्यत्वे, काव्यगीर्भवेत् काव्यं स्यात्, एतेन रसस्य काव्यात्मत्वमुक्तम् ।
एवमानन्द-यश-श्वतुर्वर्गोपायव्युत्पत्तीनां काव्यप्रयोजन तामसाधारणीं प्रतिपाद्य यत् कैश्चित् "श्रीहर्षादेर्धावकादीनामिव धनं राजादिगतोचितारपरिज्ञानमादित्यादेर्मयूरादीनामिवानर्थनिवारणं च" [का. प्र. उ. १] प्रयोजनत्रयमुपन्यस्तं तत् प्रतिक्षिपति - धनमनैकान्तिकमिति - काव्यकरणाद् धनं भवेदेवेति नैकान्तः, कृतकाव्यस्यापि धनादर्शनात्, अतो धनं प्रति काव्यकरणस्यानैकान्तिकत्वम्, तथा चाह - " उपशमफलाद् विद्याबीजात् फलं धनमिच्छतो, भवति विफलो यद्यायासस्तदत्र किमद्भुतम् । न नियतफलाः कर्तु भावाः फलान्तरमीशते, जनयति खलु व्रीहेर्बीजं न जातु यचाङ्कुरम्" [ ] इति । व्यवहारकौशलमिति - व्यवहारस्य राजादावुचिताचारस्य, कौशलं परिज्ञानम्, तच्च शास्त्रेभ्यः चाणक्यादिप्रणीतेभ्यः, सम्भवतीति शेषः, अतश्व
For Private And Personal Use Only