________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० ३ ।
__ पुराण-प्रकरणादिभ्यश्च शब्दार्थयोर्गुणभावे रसप्राधान्ये च विलक्षणं काव्यं कान्तेव सरसतापादनेन संमुखीकृत्य रामादिवत् वर्तितव्यं न रावणादिवदित्युपदिशतीति सहृदयानां प्रयोजनम् । तथा चोक्तं हृदयदर्पणे
अर्थो वाच्यः, तयोर्गुणभावे-अप्रधानत्वे । रसप्राधान्ये रसस्य शृङ्गारादेः प्राधान्ये-मुख्यभावे । विलक्षणं विसदृशम् , वैधयंभाजनमिति यावत् , वैलक्षण्ये बीजं च गुणीभूतशब्दार्थोभयकत्वमेव, वेदागमादौ शब्दस्य पुराणेतिहासादावर्थस्य काव्ये च रसस्य प्राधान्यमित्यस्ति भेद इति । कान्तेव कामिनीव, अत्र कान्तापदं बलादिव हृदयावर्जकत्वं प्रतिपादयति, अतथाविधा तु कुकाव्योपमानम् । सरसतापादनेन सरसता-स्निग्धहृदयता रसानुभवविजृम्भमाणचित्तस्फारता, तस्या मापादनेन-सम्पादनेन सम्मुखीकृत्य अभिमुखीकृत्य स्वप्रतिपाद्यार्थबोधानुकूलयत्नाश्रयीकृत्येति यावत् । __ यथा कमनीयकलेवरा सुवृत्ता च कान्ता प्रियं गुरुमित्रादिविषये समाश्रितबहुमानमपि स्वेतरजनवैलक्षण्येन कटाक्षभुजाक्षेपभ्रभङ्गिस्मितप्रकाशनादिना सरसमानसतामानीय स्वाभिमुखीकृत्य स्वविषये प्रवर्तयति तथैव काव्यमपि सुकुमारबुद्धिसुखिस्वभावाभ्यां कर्कशचाणक्यादिकृतनीतिशास्त्रादिपराङ्मुखान् राजपुत्रप्रभृतीन् ललितपदक्रमबन्धमनोज्ञार्थोपहृतशृङ्गारादिरसेनाकण्ठं तर्पयित्वा कटुकषायोषधपराङ्मुखान् बालकानिव मधुरभोजनं तत्पान इव सदुपदेशस्वरूपस्वार्थे प्रवर्तयतीति तात्पर्यम् । उपदिशति अप्रयासेन शिक्षयति, व्युत्पत्तिं करोतीति यावत् । अयमभिप्रायः-ये शास्त्रेतिहासेभ्योऽलब्धव्युत्पत्तयः, अथ चावश्यं व्युत्पाद्याः प्रजार्थसम्पादनयोग्यताक्रान्ता राजपुत्रादयस्तेषां जायासम्मितत्वेन परमप्रीतिकारिणः काव्याद् हृदयानुप्रवेशमुखेन चतुर्वर्गोपायव्युत्पत्तिराधेया, हृदयानुप्रवेशश्च रसास्वादमय एव, स च रसश्चतुर्वर्गोपायव्युत्पत्तिनान्तरीयकविभावादिसंयोगप्रसादोपनत इत्येवं रसोपचितविभावाद्युपनिबन्धे रसास्वादवैवश्यमेव स्वरसभाविन्यां व्युत्पत्तौ प्रयोजकमिति प्रीतिरेव व्युत्पत्तेः प्रयोजिकेत्यर्थः । नन्वेवं सुकुमारमतीनां व्युत्पादनाय काव्यमपेक्षितमित्यायातं, ततश्च परिपक्कबुद्धिभिः सत्सु वेदागमादिशास्त्रेषु किमिति काव्येषु यत्नः करणीय इति चेत् ? न-कटुकौषधसितशर्करोभयशम्येन केनचिदू भामयेन पीडितस्य
का० २
For Private And Personal Use Only