SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६ सालङ्कारचूडामणौ काव्यानुशासने शब्दप्रधानेभ्यो बेदागमादिशास्त्रेभ्यो मित्रसंमितेभ्योऽर्थप्रधानेभ्यः कवेरेवेति-एवकारेण सहृदयस्य व्यवच्छेदस्तस्य निर्मातृत्वाभावात् । यशसः कविसम्बद्धत्वेनैव कविस्मारकत्वमित्याह-यत इयति संसार इतियतः-काव्योद्भूतयशसः कारणात् , इयति-अतिमहति, गणनातीतजीवराशिनिवासभूते संसारे, यत्र समानदेशकालविद्यमानानामपि जीवानां परस्परं परिचयो दुरूहस्तत्रेति भावः, चिरातीता अपि विप्रकृष्टतरपूर्वकालगता अपि, कालिदासादयः सहृदयैः स्तूयन्ते, काव्यरसास्वादजुषामेव सहृदयानां तदीयकीर्तिकरत्वमुचितमेवेत्याशयेनोक्तम्-सहृदयैरिति । प्रभुतुल्येभ्यः कर्तव्यमिदमित्याज्ञामात्रपरमार्थेभ्य इति विवेकः, परे विस्थमाहुःशब्दस्त्रिविधः-प्रभुसम्मितः, सुहृत्सम्मितः, कान्तासम्मितश्चेति, तत्र प्रथमः शब्दप्रधानो वेदादिः, शब्दप्रधानत्वं च प्रवर्तनारूपशासनाप्रधानत्वम् , तथा च यथा प्रभुरिष्टसाधनेऽनिष्टसाधने निष्फले च कर्मणि यथेच्छं नियोजयति, तथा वेदोऽपि इष्टसाधने ज्योतिष्टोमादावनिष्टसाधने श्येनयागादौ निष्फले सन्ध्यावन्दनादौ च नियोजयतीति वेदादेः प्रभुसम्मितत्वमिति; समीहितार्थलाभायात्यज्यमानमुख्यार्थत्वं शब्दप्रधानत्वमिति नागेशः; अपरे तु-“शब्दपरिवृत्त्यसहत्वं शब्दप्राधान्यम् , यथा 'रामः कामनाकल्पतरुः' इत्युच्यतामिति जाते प्रभोरादेशे 'अभीष्टसुरद्रुः' इत्युच्यमानेऽपि न यथोक्तं कृतं भवति, एवं वेदेऽपि "अग्निमीळे पुरोहितम्" इत्यस्य स्थाने तदर्थकमेव “हुताशं स्तौमि पुरोधसम्" इति, "ईळे वह्निम्" इति वा प्रयोगो न फलाय कल्पते” इत्याहुः । अन्न 'विलक्षणम्' इत्यग्रिमपदयोगे पञ्चमी, तस्या भिन्नार्थत्वात् , भेदश्च स्वभावकृतः, काव्यस्य कान्तासम्मितत्वेन वक्ष्यमाणतया प्रभुसम्मितवेदागमादिशास्त्रेभ्यो भेदस्यौचित्यात् । मित्रसम्मितेभ्य इति – 'अस्येदं वृत्तममुष्मात् कर्मणः' इत्येवं युक्तियुक्तकर्मफलसम्बन्धप्रकटनकारिभ्य इति विवेकः, परे तु "सुहृसम्मिताश्चार्थतात्पर्यवन्तः, अर्थतात्पर्यवत्वं च इष्टानिष्टार्थबोधमानपरत्वम् , यथा पुराणादयः, तथा च यथा सुहृद्र ‘एवं कृते इदं भवति' इति वस्तुमात्रमभिधाय विरमति, तथा पुराणादयोऽपि 'एवं कृते इदमभीष्टं भवति, एवं च कृते इदमनिष्टं भवति' इति वस्तुमानं बोधयन्ति, न तु प्रवर्तयन्ति निवर्तयन्ति वा" इत्याहुः । शब्दार्थयोर्गुणभावे शब्दो वाचकः For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy