________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० ३।
यावत् कालिदासादयः सहृदयैः स्तूयन्ते कवयः । प्रभुतुल्येभ्यः नन्दाख्यप्रयोजनस्य प्राधान्यमित्याह -कवि-सहृदययोरिति-आनन्दाख्यमाद्यं प्रयोजनं कवेः सहृदयस्य च, द्वितीयं यशश्च केवलस्य कवेरेव, चरम च व्युत्पत्तिलक्षणं सहृदयानामेवेति युक्तमानन्दस्य प्राथम्यं प्राधान्यकृतमिति भावः । यः काव्यं कुरुते स कविः, यस्य तु काव्यानुशीलनाभ्यासवशाद् विशदीभूते मनोमुकुरे वर्णनीयतन्मयीभवनयोग्यता सहृदयसंवादभाक् [ सहदयान्तरानुभवसंवादभाक् ] स सहृदयः, काव्यकर्तृत्वलक्षणपूर्वावस्थापेक्षया कविशब्दनिर्देशः, यतः कवेरपि भावकावस्थायामेव-रसास्वादानुकूलविचारणाजनितावस्थायामेव सहृदयतायामेवेति यावत्, रसास्वादः सम्पद्यते, पृथगेव हि कवित्वाद् भावकत्वम् , यदाह-"सरस्वत्याम्तत्त्वं कवि-सहृदयाख्यं विजयते” इति, सरस्वत्याः-वाण्याः, तत्त्वं-सारः, विजयते-सर्वोत्कर्षण वर्तते, किंस्वरूपं कतिभेदं वा तत्त्वमित्याह-कविसहृदयाख्यमिति-भावप्रधानोऽयं निर्देशः, धर्म-धर्मिणोरभेदं वाश्रित्येत्थं निर्देशः, तथा च कवित्वाख्यं सहृदयताख्यमिति द्विविधं सरस्वत्यास्तत्त्वमित्यर्थः । द्वितीयस्य फलस्य यशसः कविमात्रविषयकत्वमाहयश इति । यदाह-"अमरसदनादिभ्यो भूता न कीर्तिरनश्वरी, भवति यदसौ संवृद्धाऽपि प्रणश्यति तत्क्षये । तदलममलं कर्तुं काव्यं यतेत समाहितो, जगति सकले व्यासादीनां विलोक्य परं यशः ॥” [रु० का० १. २२.]
अमरसदनादिभ्यः-देवमन्दिरादिभ्यः, देवमन्दिरनिर्माणादिभ्य इत्यर्थः, भूता-संजाता, कीर्तिः-यशः, अनश्वरी-स्थायिनी, स्थिरेति यावत् , न भवति, यद्-यस्मात् कारणात् , असौ-कीर्तिः, संवर्धिताऽपि तदीयपूजादिपरम्परास्थापनेन वृद्धिमुपगताऽपि, आस्तां देवमन्दिरनिर्माणादिकालजनितत्वेन बाला, तत्क्षये-अमरसदनादिक्षये, कार्यमात्रस्य क्षयित्वनियमादमरसदनादौ क्षयमुपगते सतीत्यर्थः, प्रणश्यति-विनाशं याति, कीर्तस्तत्कर्ममूलकत्वात् तस्मिन् क्षीणे तनिमित्तायाः कीर्तः प्रणाशोऽवश्यम्भावीति भावः, ततश्च कीर्तेरनश्वरत्वसम्पत्तये किमिह कर्तव्यमिति चेत् ? अत्राह-तस्मात् कारणात् , समाहितः-सावधानः सन् , अमलं काव्यं कर्तुं यतेत , तेनैव कीर्तिः स्थिरा भवतीति भावः, तत्र हेतुमाह-सकले जगति व्यासादीनां परं यशो विलोक्येति-यतो व्यासादिभिरमलं काव्यं कृतमत एव तेषां यशो विलोक्यते, अतः काव्यकरणे स्थिरं यशो निश्चितमिति पद्यार्थः ।
For Private And Personal Use Only