SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४ सालङ्कारचूडामणौ काव्यानुशासने जनम् , यशस्तु कवेरेव, यत इयति संसारे चिरातीता अप्यद्य तस्य काव्यलक्षणस्य "अदोषौ सगुणौ सालङ्कारौ शब्दार्थों काव्यम्" [११] इति सूत्रेण वक्ष्यमाणत्वेऽपि फलप्रतिपादनद्वाराऽपेक्षितं काव्यं किमिति जिज्ञासोपशमनाय व्युत्पत्त्या काव्यमिह लक्षितम् । फलेषु प्रधानमानन्दं लक्षयति-प्रीतिरानन्द इति - 'प्रीतिः' इति लक्ष्यम् , 'आनन्दः' इति लक्षणम् । कीदृशी प्रीतिरानन्दः? सद्योरसास्वादजन्मा सद्यः-तत्काले, रसस्य-विगतावरणचिदात्मकस्य सहृदयताभावनादिनाऽऽस्वादनीयस्य काव्यजीवातोः, आस्वादः-चर्वणाभिधानो भोगः, तस्मा. जन्म-प्रकाशो यस्याः सा तथा । पुनः कीदृशी प्रीतिः ? निरस्तवेद्यान्तरा निरन्तं-तिरोहित वेद्यान्तरं ज्ञेयान्तरं यया यस्यां वा सा तथा, इदं रसास्वादिसमुत्थचमत्कारस्वरूपकथनम् । पुनः कीदृशी प्रीतिः ? ब्रह्मास्वादसदृशी ब्रह्मास्वादेन-ब्रह्मानुभवेन, सदृशी-समा, सादृश्यं चात्र ज्ञान. स्वरूपत्वा-ऽखण्डत्व-स्वप्रकाशत्वादिधमैंबोध्यम्, 'तभिन्नत्वे सति तद्गतभूयोधर्मवत्वं सादृश्यम्' इति लक्षणलक्षितस्य सादृश्यस्य भेदघटितत्वेनात्र सर्वथैकरूपत्वे तदनुपपत्तिरिति शङ्कायां ब्रह्मास्वादस्याविशिष्टविषयकत्वम् , रसाऽऽस्वादस्य च विभावादिविशेषितस्य स्थायिन एव रसरूपतया परिणतेविशिष्टविषयत्वमित्युत्तरमूह्यम् । आनन्दादीनां त्रयाणां प्रयोजनानां मध्ये प्राधान्यादानन्दस्य प्रागुपन्यासः, प्राधान्यं चात्रोपनिषद्भूतत्वादिनेत्याहइदं सर्वप्रयोजनोपनिषद्भूतमिति-इदम्-आनन्दाख्यं प्रयोजनम् , सर्वेषां प्रयोजनानाम् , उपनिषद्भूतम्-अन्तःप्रविष्टतया रहस्यभूतम् , सारांशभूतमिति यावत् , "उपनिषत् तु वेदान्ते रहस्य-धर्मयोरपि” इति हैमः, काव्यस्य यशो-व्युत्पत्तिफलकत्वेऽपि पर्यन्ते सर्वत्राऽऽनन्दस्यैव साध्यत्वात् , तथाहिकवेस्तावत् कीर्त्याऽपि प्रीतिरेव सम्पाद्या, यदाह- 'कीर्ति स्वर्गफलामाहुः" इति, स्वर्गशब्दो देवानामावासस्थाने तत्सम्पादितानन्दे च वर्तते, तथा च स्वर्गः-स्वर्गसम्पादितानन्दः, प्रस्तावात् तादृशानन्दः फलं यस्यास्तां तथा, यद्यपि काव्यतः श्रोतृणां व्युत्पत्तिरस्ति, तथापि तत्र प्रीतेरेव प्राधान्यम् , अन्यथा प्रभुसम्मितेभ्यो वेदादिभ्यो मित्रसम्मितेभ्यश्चेतिहासादिभ्यः कोऽस्य काव्यस्य व्युत्पत्तिहेतोऑयासंमितत्वलक्षणो विशेष इति, चतुर्वर्गव्युत्पत्तेरपि चानन्द एव पार्यन्तिकं मुख्यफलमिति । कवि-सहृदयोभयसाधारण्यादप्या For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy