________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० ३ ।
१३
काव्यमानन्दाय यशसे कान्तातुल्यतयोपदेशाय च॥३॥ लोकोत्तरं कविकर्म काव्यम् । यदाह
"प्रज्ञा नवनवोल्लेखशालिनी प्रतिभा मता। तदनुप्राणनाजीवद्वर्णनानिपुणः कविः ।।
तस्य कर्म स्मृतं काव्यम् ॥" [ ] इति सद्योरसास्वादजन्मा निरस्तवेद्यान्तरा ब्रह्मास्वादसदृशी प्रीति. रानन्दः । इदं सर्वप्रयोजनोपनिषद्भूतं कवि-सहृदययोः काव्यप्रयोउक्त्वा सूचयित्वा । अभिधेयप्रयोजनमिति-अभिधेयस्य प्रस्तुतग्रन्थस्य प्रतिपाद्यस्य काव्यस्य, प्रयोजनं-फलम् । आह "काव्यमानन्दाय." इत्यादिना दर्शयति ।
सूत्रोपात्तं काव्यं व्युत्पत्त्या लक्षयति-लोकोत्तरं कवेः कर्म काव्यमिति'लोकोत्तरं कवेः कर्म' इति लक्षणम् , 'काव्यम्' इति लक्ष्यम्, विशेष्यमात्रोपादाने कवेः व्यापारान्तराणामपि काव्यत्वं प्रसज्येतातो विशेषणोपादानम् । निरुक्तलक्षणे प्राचां संवादं दर्शयितुमाह-यदाहेति । प्राचां वचनमुलिखति-प्रज्ञेत्यादि - नवा नवाः-नित्यनूतनाः प्राचीनानामणीयसीभिरपि बुद्धिभिरनुन्मीलिता ये, उल्लेखाः-उन्मेषा अर्थसृष्टिसमुद्भवाश्चमत्कारविशेपास्तैः शालते-शोभत इत्येवंशीला या प्रज्ञा-बुद्धिः सा प्रतिभा मता, नित्यनूतनार्थसृष्टिप्रबन्धपाटवं हि प्रतिभायाः फलमिष्टम् , तथा च स्मयते-“अन्यदृष्टचरे ह्यथ महाकवयो जात्यन्धाः, तद्विपरीते तु दिव्यदृशः" [काव्यमीमांसा ] इति, "तदनुप्राणनाजीवद्” इति पाठे तया-प्रतिभया, अनुप्राणनादजीवनाधानात् तत्कृतकृतार्थताभाजनत्वादित्यर्थः, कविः यः काव्यं करोति सः, जीवद्वर्णनानिपुणः जीवद्वर्णनायां-जीववर्णने चमत्कारविशेषाधायकशब्दार्थसन्दर्भसमुपस्थापने, निपुणः-दक्षो ‘भवति' इति शेषः । तस्य तस्यैव च सजीववर्णनाकृताभ्यासस्य कवेः कर्म काव्यमाहुः । “तदनुप्राणनाजीवद्” इति पाटे तु तदनुप्राणनया-प्रतिभाकृतोत्तेजनया जीवन्ती-चमकारविशेषशालिनी, या वर्णना-प्रतिपादनं तस्यां निपुणः कविर्भवतीति, तस्य निरुक्तस्वरूपस्य कवेः, कर्म काव्यम्, कर्म चात्र क्रिया, सा च योजनारूपा, न तूचारणात्मिका, मौनिपद्यासङ्ग्रहापत्तेः, परिनिष्ठि
For Private And Personal Use Only