________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सालङ्कारचूडामणौ काव्यानुशासने काव्यत्वं-काव्यीभावो, यथावत्-तात्विकेन रूपेण अनुशिष्यते । वाचा हि साधुत्वे निश्चिते सुकरः काव्योपदेशः । अनेन शब्दानुशासन काव्यानुशासनयोरेककर्तृकत्वं चाह । अत एव हि प्रायोगिकमन्यैरिव नारप्स्यते, शब्दानुशासनेनैव चरितार्थत्वात् ॥२॥
शास्त्रप्रयोजनमुक्त्वा अभिधेयप्रयोजनमाहयथा 'गौः' इत्यस्य साधुत्वे ज्ञाते गावी-गोणी-गोता-गोपोतलिकादीनां तत्त्वं निवर्तते, इदमेवासाधुभ्यो वाग्भ्यः साध्व्या वाचः पृथक्करणं बोध्यम् , साधुत्वं च पुण्यजनकतावच्छेदकधर्मवत्त्वम् । कायीभाव इति-अकाव्यस्य काव्यरूपेण भवनम् । 'यथावद्' इत्यस्य विवरणम् -तात्त्विकेन रूपेणेति -- अन्यथा श्रोतृणामुन्मुखीकारासम्भवः, यत्किञ्चित्कथनेन हि तदिष्टसाधनताज्ञानजन्यस्य प्रवर्तनस्यासम्भवात् । अनुशिष्यते लक्षण-विधानादिना प्रतिपाद्यते । शब्दानुशासनरचनानन्तरं काव्यानुशासनरचनायां प्रयोजनमाह-वाचां हीतिअन्यथा प्रयोक्ष्यमाणशब्दराशिसाधुताज्ञानस्योपायाभावग्रहग्रस्तत्वेनाकाण्डताण्डवमिदं स्यात् , किञ्च 'साध्व्यो वाचो विवेचिताः' इत्यनेन प्रयोगयोग्यशब्दसमुदायानां साधुत्वप्रकारस्य पूर्वमुपदिष्टतया ज्ञातत्येन काव्यस्वरूपोपदेशस्य प्राप्तावसरत्वमावेद्यते । अनेन 'यैरेवास्माभिः शब्दानुशासने साध्व्यो वाचो विवेचितास्तैरेवास्माभिस्तासां काव्यत्वमनुशिष्यते' इति कथनेन । एककर्तृत्वं विवेचिताः, अनुशिष्यते' इत्युभयक्रिययोरेकर्तृत्वम् , अर्थाद् य एव शब्दानुशासनस्य कर्ता स एव काव्यानुशासनस्यापि कर्तेति । आह बोधयति, एतेन स्वस्यैतादृशग्रन्थप्रणयनविधावुचिताधिकारित्वं समर्थितम् । अत एव शब्दानुशासनस्य कृतपूर्वत्वादेव । प्रायोगिकं प्रयोगव्युत्पादनम् । अन्यैरिव वामनादिभिरिव । कुतो नारप्स्यते ? इत्याह-शब्दानुशासनेनैव चरितार्थत्वादिति, एतेन यथा वामनादिभिरालङ्कारिकैः प्रयोगांशज्ञानस्यापि कृते काव्यस्वरूपनिर्णयप्रवृत्त एव ग्रन्थे प्रकरणविशेषोऽवतारितस्तथात्र ग्रन्थे किमिति न कृतमिति न्यूनता परिहृता, तदंशस्य स्वकृतशब्दानुशासने निरूपितत्वादिति ॥ २॥
काव्यफलप्रतिपादकसूत्रं विवरितुमनास्तदवतरणिकामाह-शास्त्रप्रयोजनमिति-शास्त्रस्य-काव्यानुशासनाभिधानस्य प्रस्तुतग्रन्थस्य, प्रयोजनं - तदवगतिलक्षणम्, अनन्तरपद्ये काव्यात्मकाभिधानात् स्वयमूह्यत्वेनोक्तप्रायत्वात्
For Private And Personal Use Only