________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० २ ।
शब्दानुशासने-सिद्धहेमचन्द्राभिधाने, विवेचिता:-असाध्वीभ्यो वाग्भ्यः पृथक्कृताः । इदानीं-शब्दानुशासनानन्तरं, तासां-वाचां,
AAAAAAAnarna'
"काव्यमानन्दाय." इत्यादिना वक्ष्यते, अत एव “शास्त्रप्रयोजनमुक्त्वाऽभिधेयप्रयोजनमाह ." इत्येवंस्वरूपा उत्तरावतरणिका संगच्छते । नन्वानन्दादयस्तिलकमार्यादेः काव्यस्य प्रयोजनं, न तु काव्यस्वरूपप्रतिपादकस्य प्रस्तुतग्रन्थस्येति कथमानन्दादीनां प्रस्तुतग्रन्थीयपारम्परिकफलतयोपदर्शनमिति चेत् ? उच्यते-प्रकृतोऽयं ग्रन्थः 'काव्यं कीदृशम् ? तदङ्गानि च कानि ?' इत्यादि विवेचयितुं प्रवृत्त इति काव्यमिह वर्णनीयतया प्रधानम् , प्रधानस्य फले निर्णीतेऽङ्गभूतानां तत्प्रतिपादकानां तत्स्वरूपसम्पादकानां वा तेनैव फलेन फलवत्त्वमिति सर्ववादिसम्मतम् , तथाहि-शरीरस्य शोभया करादितदङ्गानां शोभव, राज्ञः सम्पन्नतया तदीयपरिवाराणां सम्पन्नतैव, काव्यस्य सप्रयोजनतया तत्स्वरूपनिरूपणपरस्य शास्त्रस्यापि सप्रयोजनत्वमिति । एवमेव साहित्यदर्पणं टीकमानेन तर्कवागीदोन च "अस्य ग्रन्थस्य काव्याङ्गतया काव्यफलैरेव फलवत्त्वमिति" इति विवरणग्रन्थं व्याचक्षमाणेन “काव्यफलैरित्यत्राभेदे तृतीया धान्येन धनवानितिवत् , तथा च काव्यफलाभिन्नान्येतत्फलानि" इति प्रतिपादितम् , तथा दर्शपौर्णमासाङ्गानां प्रयाजादीनां दर्शपौर्णमासफलेनैव फलवत्त्वं तथास्यापीति । ननु प्रयाजादीनां दृष्टाङ्गापूर्वजननद्वारा परमापूर्व प्रत्युपकारः सम्भवतीति तत्र तथास्तु, प्रकृते तु शास्त्रस्य काव्यगुणदोषादिज्ञापनोपक्षीणत्वेन कथमानन्दादिकं प्रत्युपकारः सम्भवेत् , कथं वा तत्साधनत्वमिति चेत् ? न; काव्यं हि स्वरूपसद् नानन्दादिहेतुः, किन्तु कृति-ज्ञप्त्यन्यतरविषयतया, तत्रास्य ग्रन्थस्योपकारः सम्भवतीति न कापि विप्रतिपत्तिः । शब्दानुशासने साधुशब्दा विवेचिताः, तेषां साधुशब्दानामधुना काव्यत्वमनुशिष्यते, काव्यं चानन्दादिकृते भवतीत्याद्यर्थविवक्षायामस्य पद्यस्य भूमिकारूपत्वात् प्रस्तावनाभिधायकत्वमवगन्तव्यम् । __ शब्दानुशासन-व्याकरणस्यान्वर्थं नाम, तच्च प्रस्तावादिह सिद्ध हेमचन्द्राभिधानं ग्राह्यमित्यावेदनायाह-सिद्धहेमचन्द्राभिधान इति । अस्माभिः हेमचन्द्रसूरिभिः, उपादेयताप्रकर्षपरिपोषकगुणबाहुल्यावेदनाय स्वस्मिन् बहुवचनेन निर्देशः । 'विवेचिताः' इत्यस्य विवरणम्-'असाध्वीभ्यो वाग्भ्यः पृथस्कृताः' इति, जाते हि साधुत्वज्ञाने स्वयमेवासाधवः शब्दाः पृथगवभासन्ते,
For Private And Personal Use Only