________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सालङ्कारचूडामणौ काव्यानुशासने अथ प्रेक्षावत्प्रवृत्त्यङ्गं प्रयोजनं वक्तुं तत्प्रस्तावनामाहशब्दानुशासनेऽस्माभिः, साध्व्यो वाचो विवेचिताः। तासामिदानीं काव्यत्वं, यथावदनुशिष्यते ॥२॥
द्वितीयपद्यमवतारयति-अथेति । अथ मङ्गलाचरणानन्तरम् । प्रेक्षावत्प्रवृत्त्यङ्गं प्रकर्षण-प्रमाणादिना ईक्षा-प्रेक्षा, प्रेक्षा अस्त्येषामिति प्रेक्षावन्तः, विमृश्यकारिण इत्यर्थः, तेषां या प्रवृत्तिः-प्रस्तुतग्रन्थश्रवणादिगोचरः प्रयत्नविशेषः, तस्या अङ्गम्- उपायभूतं निमित्तभूतमिति यावत् । प्रयोजनं यमर्थमवलम्ब्य प्रवर्तते तत् प्रयोजनम् , प्रस्तुतग्रन्थफलमित्यर्थः । वक्तुं साक्षाफलमि हैव सूचयितुम् , परम्पराफलमुत्तरत्र प्रतिपादयितुं च । तत्प्रस्तावनां प्रयोजनभूमिकाम् । आह द्वितीयपद्येन प्रतिपादयति । ___ अभिधेय-सम्बन्ध प्रयोजनाऽधिकारिरूपानुबन्धचतुष्टयज्ञानमन्तरा प्रेक्षावतां ग्रन्थश्रवणादौ प्रवृत्तिर्न भवतीति तत्प्रवृत्त्यर्थमनुबन्धचतुष्टयं प्रतिपादनीयम् , प्रस्तुते काव्यमभिधेयम् , प्रतिपाद्यप्रतिपादकभावः सम्बन्धः, प्रयोजनं द्विविधंकर्तृगतं श्रोतृगतं च, तदपि प्रत्येकं द्विविध-साक्षात् पारम्परिकं च, तत्र कर्तृगतं साक्षात् प्रयोजनं श्रोतृजनोपकारः पारम्परिकं च स्वर्गापवर्गादिकम् , श्रोतृगतं साक्षात् प्रयोजनं काव्यपरिज्ञानं पारम्परिकमानन्दादि, यतो हि काव्यानुशासनेऽधिगते काव्यमवधारयति, काव्यस्वरूपावधारणात् काव्यकरण-श्रवणादी प्रवर्तते, ततश्च वक्ष्यमाणरीत्याऽऽनन्दादि लभते, काव्याधिगतिकामोऽधिकारीति, अनुबन्धचतुष्टयमध्ये प्रयोजनस्य प्राधान्यात् तस्येह प्रवृत्त्यङ्गतयोपादानम् , यदुक्तम्-"श्रुतार्थं श्रुतसम्बन्धं श्रोतुं श्रोता प्रवर्तते । ग्रन्थादौ तेन वक्तव्यः सम्बन्धः सप्रयोजनः" ॥ इति, किञ्च, "सर्वस्यैव हि वाक्यस्य कर्मणो वाऽपि कस्यचित् । यावत् प्रयोजनं नोक्तं तावत् तत् केन गृह्यते ? ॥” इति [श्लोकवार्तिक० १. १२] तथा "नहि प्रयोजनमन्तरेण मन्दोऽपि प्रवर्तते" इति, अत्र मन्दोऽपीत्यपिना मन्दस्य यदाकदाचिदनपेक्षितप्रयोजनस्यापि कर्मसु प्रवृत्तिदर्शनात् तस्याप्यप्रवृत्तरुक्तौ प्रेक्षावतां प्रवृत्तिः सुतरामसम्भविनीति प्रकाश्यते । यद्यपि साक्षात् प्रयोजनमिहोत्तरत्र च स्वशब्देनोक्तं तथापीह "काव्यत्वमनुशिष्यते" इत्यनेन काव्यात्माभिधेयाभिधानात् तत्परिज्ञानलक्षणं प्रयोजनमपि स्वयमूह्यत्वादभिहितप्रायत्वेन सूचितमवगन्तव्यम् , पारम्परिकं तु
For Private And Personal Use Only