________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० ।
देवा दैवीं नरा नारी, शबराश्चापि शाबरीम् ।
तिर्यश्चोऽपि हि तैरश्चीं, मेनिरे भगवद्गिरम् ।। नह्येवंविधं भुवनाद्भुतमतिशयमन्तरेण युगपदनेकसत्त्वोपकारः शक्यः कर्तुम् ॥ १ ॥ णीहारिणा सरेण अद्धमागहाए भासाए भासति अरिहा धम्म परिकहेइ" ['सर्वभाषानुगामिन्या सरस्वत्या योजनगामिना स्वरेण अर्द्धमागध्या भाषया भाषते अर्हन् धर्म परिकथयति' इति संस्कृतम् , औपपातिकसू० ३४] "रसोर्लशौ मागध्याम्" इत्यादि यद् मागधभाषालक्षणं तेनापरिपूर्णा प्राकृतभाषालक्षणबहुला अर्धमागधी भाषेत्युच्यते । वारिदेति-यथा हि वारिदेनमेघेन विमुक्तं यद् वारि-जलं तद् आश्रयस्य-निजनिपतनाधिकरणस्य भूप्रदेशस्य अनुरूपतया-सदृशतया भूप्रदेशगतदैर्ध्य वर्तुलस्व-गम्भीरत्वादिधर्मसादृश्येन परिणमति-तादृशदैर्घ्य-वर्तुलत्व-गम्भीरत्वादिपरिणामवद् भवति, यद्वा यथा स्वातिनक्षत्रीयमेघेन निर्मुक्तं जलं निजनिपतनाधिकरणे आम्रतरुमूले निपतितमाम्रफलतया कदलीमूले निपतितं कदलीफलतया शुक्तौ निपतितं च मौक्तिकफलतया परिणमति तथा जिनवागपि लोकानुग्रहकामनया व्यापृतत्वात् स्वसंबो. ध्यलोकबोधसौविध्याय तत्तद्भाषारूपेण परिणमति, तत्तद्भाषामयी भवतीत्यर्थः । अत्रार्थे प्राचां संवादमाह-यदाहेति । देवा इति-इयं देवभाषेति देवाः, इयं मनुजभाषेति मानवाः, इयं भिल्लभाषेति भिल्लाः, इयं तिर्यग्भाषेति तिर्यञ्चः, जिनवाणीं मन्यन्ते स्म, आश्रयानुरूपतया परिणतत्वादिति मुकुलितोऽर्थः । 'सर्वभाषापरिणताम्' इत्यनेन भगवति जिने दिव्यशक्तिविशेषः, वाण्यां तादृशशक्तिप्रभवा नानारूपेण परिणमनशक्तिः, तादृशपरिणमनशक्तितश्च युगपदनेकसत्वोपकार आवेदितः । तादृशदिव्यशक्तिमन्तरा सकृदुच्चरिताया एकरूपाया वाचो विभिन्न श्रोतृजनार्थ नानारूपेणावतारो न सम्भवतीत्येतदाह-नोवमिति । एवंविधं सकृदुच्चरिताया अपि वाचो नानारूपेण परिणमनरूपम् । भुवनाद्भुतं जगति विस्मयसम्पादकम् । अतिशयं जगतोऽप्यतिशेते जिनोऽनेनेति अतिशयः सामर्थ्य विशेषस्तम् । अन्तरेण विना । युगपद् एकस्मिन्नेव काले । अनेकसत्त्वोपकारः नानाविधजीवोपकारः । नहि कर्तुं शक्यः सामर्थ्य विशेषाभावे नानापरिणामाभावादेकरूपैव वागित्येकविधजीवोपकारमेव कर्तुं प्रभवेत् , न नानाविधजीवोपकारम् ॥ १॥
For Private And Personal Use Only