SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सालङ्कारचूडामणौ काव्यानुशासने पारम्पर्येण निःश्रेयसप्रयोजनत्वात् । तथा सर्वेषां सुर-नर-तिरश्चां विचित्रासु भाषासु परिणतां-तन्मयतां गतां सर्वभाषापरिणताम् , एकरूपाऽपि हि भगवतोऽर्धमागधी भाषा, वारिदविमुक्तवारिवदा. श्रयानुरूपतया परिणमते, यदाह चरणकरणनिरूपणाञ्चरणकरणानुयोगमयीति चतुरनुयोगमयजिनवाण्याः कथं मोक्षाभिधायित्वमित्याकाङ्क्षायामाह-द्रव्याद्यनुयोगानामपीति-आदिपदाद् गणितानुयोग-धर्मकथानुयोग चरणकरणानुयोगानामुपग्रहः । निःश्रेयसप्रयोजनत्वात् मोक्षफलकत्वात् । भगवानाचार्यः स्वयमेव तद्भावनां विवेके प्राह"इहानुयोगश्चतुर्धा-चरणकरण-धर्मकथा-गणित-द्रव्यभेदात् , तत्राऽऽद्यस्य सम्यग्ज्ञानदर्शनपवित्रिते नवकर्मानुपादानाऽतीतकर्मनिर्जरारूपे संयमतपसी प्रतिपाद्ये इति सर्वकर्मविमोक्षलक्षणमोक्षपरत्वात् परमार्थाभिधायित्वं प्रतीतमेव, शेषाणां तु पारम्पर्येण, गव्यस्य चोपायत्वेन प्रधानतया विवक्षितत्वात् पश्चानुपूाऽऽदावुपदेशः, तथाहि-नय-प्रमाणबलेन दुर्नयतिरस्कारात् स्याद्वादाधीनं सकलभावानामर्थक्रियाकारित्वलक्षणं सत्त्वं प्ररूप्यते चेतनाचेतनरूपसकलद्रव्याणां योनयश्चेति वस्तुतत्त्वनिरूपणेन द्रव्यस्य, गणितबलेन सुरादीनां सर्वदेहिनामायूंषि चन्द्राद्युपरागादयश्च निश्चीयन्त इत्यायुरादिज्ञानेन गणितस्य, वैराग्योपजननमितिवृत्तं प्रस्तूयत इत्यवदातकथनेन वैराग्योत्पत्तिहेतुत्वाद् धर्मकथायाः परमपुरुषार्थाभिधायकत्वं परम्परयाऽस्ति" इति । जिनवाचो विशेषणान्तरमाह-सर्वभाषापरिणतामिति कारिकायाम् । तद् विवृणोतिसर्वेषामिति । सर्वशब्दस्य प्रस्तुतसकलवाचकत्वेऽपि वाणीश्रवणमननार्हाणामेव प्राणिनां ग्रहणौचित्यादाह-सुर-नर-तिरश्चामिति-सुराः-भुवनपति-व्यन्तरज्योतिष्क-वैमानिका देवाः, नराः-मानवाः, तिर्यञ्चः-पशवः शकुन यश्च, तेषां तथा, नारकाणां दूरस्थत्वाद् एकेन्द्रिय-विकलेन्द्रिया-ऽसंज्ञिपञ्चेन्द्रियाणां श्रवणेन्द्रियमनोविकलत्वात् परिहारः । विचित्रासु नानाविधध्वनि-स्वरपाताऽर्थबोधनप्रकारशालितयाऽनेकभेदभिन्नासु । नन्वेकदैकप्रयत्नोच्चारिता जिनवाणी कथं नानाभाषामयी स्यादित्यारेकामपनेतुं निदर्शनमुखेन परिणतिप्रकारमाह-एकरूपाऽपीति । एकरूपत्वमर्धमागधभाषात्वधर्मेण बोध्यमित्यावेदनायाह-अर्धमागधीति-यथा देवा अर्धमागधभाषया भाषन्ते तथा जिना अप्यर्धमागधभाषया धर्ममुपदिशन्ति, यदागमः-"सव्वभासाणुगामीए सरस्सईए जोयण-- For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy