________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० १ ।
वाल-स्त्री-भूढ-मूर्खाणां नृणां चारित्रकाङ्क्षिणाम् ।
अनुग्रहार्थ तत्त्वज्ञः, सिद्धान्तः प्राकृतः कृतः ॥ तदेतद् गीतादिसाधारण मिति विशिनष्टि-परमार्थी-निःश्रेयसम् , तदभिधानशीला परमार्थाभिधायिनीम्, द्रव्याद्यनुयोगानामपि 'मन्दधियामपि' इत्यत्रापिशब्दोपादानम् , प्राकृतभाषायाः पेशलत्वं “सरसाः प्राकृतबन्धाः" इत्यादिना राजशेखरादिभिः प्रपञ्चितम् ।
प्राकृतभाषा मन्दधियां तोषं जनयतीत्यत्र प्राचां वचनं दर्शयितुमाह-उक्तं हीति । प्राचां वचनमुल्लिखति-बालेति । तत्वज्ञैः “जीवा-ऽजीवा-ऽऽश्रवबन्ध-संवर-निर्जरा-मोक्षाख्यास्तत्वम्" [तत्त्वा० अ० १. सू० ४.] इत्युक्तलक्षणतत्त्वविद्भिर्गणधरादिभिः। सिद्धान्तः आचाराङ्गादिरागमः। प्राकृतः कृतः प्राकृतगिरा गुम्फितः । नानाभाषानिपुणैरपि प्राकृतगिरैव कथं गुम्फितः ? इत्याकाङ्क्षायामाह-अनुग्रहार्थ सुखपूर्वकग्रहणरूपोपकारार्थम् । केषामनुग्रहार्थम् ? नृणां मन्दमतीनां मानवानाम् । कीदृशानाम् ? चारित्रकाजिणां चारित्राभिलाषवतां, चारित्राभिलाषविकलानां सिद्धान्ताध्ययनेऽनधिकारात् । मन्दमतित्वमनेकधा भवतीत्यावेदनाय विशेषणमाह-बाल-स्त्री-मूढ-मूर्खाणामिति-बाले वयोजनितं, नायर्यां जातिजनितं, मूढे मोहदशाजनितं, मूर्खे ज्ञानावरककर्मकृतं, बोधापाटवलक्षण मन्दमतित्वमवसेयमिति ।
न केवलं जिनोदीरितवाण्याः प्राकृतनिबद्ध त्वमेव गौरवसमर्पकम् , तथा सति तद्भापानिबद्धगीतप्रहेलिकादिसमानतापत्तेः, अतस्तत्परिहाराय सूत्रे विशेषणमुक्तम्-परमार्थाभिधायिनीमिति । एतदेवावतारयितुमाह-तदेतद् गीतादीति-तदेतत्-प्राकृतभाषानिबद्धत्वम् , गीतादिसाधारण-गीतप्रहेलिकादिसमानम् । अर्थ्यन्ते-लोकैः स्ववृत्तितया प्रार्थ्यन्ते ये तेऽर्था धर्माऽर्थ-काममोक्षाख्याश्चत्वारः, तेषु परमोऽर्थो मोक्ष एव, “यन्न दुःखेन संभिन्नं न च भ्रष्टमनन्तरम् । अभिलाषापनीतं च तज्ज्ञेयं परमं पदम् ॥” इत्यादिवचनात् , एतदेवाह-परमार्थो निःश्रेयसमिति-निःश्रेयसं मोक्षः । परमार्थमभिधत्त इत्येवंशीला परमार्थाभिधायिनी तां तथा, अत्र शीलाथै णिन् प्रत्यय इत्याहतदभिधानशीलामिति । ननु जिनवाणी द्रव्यनिरूपणाद् द्रव्यानुयोगमयी, गणितनिरूपणाद् गणितानुयोगमयी, धर्मकथानिरूपणाद् धर्मकथानुयोगमयी,
For Private And Personal Use Only