SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ सालङ्कारचूडामणौ काव्यानुशासने अकृत्रिमस्वादून्यनाहार्यमाधुर्याणि पदानि-नामिकादीनि यस्यां सा तथा, स्वच्छ स्वादु-मृदुप्रभृतयो हि गुणमात्रवचना अपि दृश्यन्ते, अथवा अकृत्रिमाणि-असंस्कृतानि, अत एव स्वादूनि-मन्दधियामपि पेशलानि पदानि यस्यामिति विग्रहः, उक्तं हि-- योगप्रणिधानम् , जिनवाणीरूपे ध्येये ऐकाम्येण मनो-वचो-वपुर्व्यापारान् आयोजयाम इति भावः । उपासनाकर्मतयाऽभिमतां जैनी वाचमेव विशिनष्टिअकृत्रिमेति-क्रियया निर्वृत्तं कृत्रिमम् , यच न तथा तद् अकृत्रिमम् , प्रयत्न निरपेक्षं स्वाभाविकं सहजमिति यावत् , स्वादु-स्वादुत्वं माधुर्य येषां तादृशानि पदानि यस्यां तां तथा, एतद्व्याख्यानमाह-अकृत्रिमस्वादूनीत्यादि । अनाहार्यमार्याणि आहार्यम्-आरोपितमागन्तुकं वा, यच्च न तथा तद् अनाहार्य वास्तविकं सहजमित्यर्थः, तादृशं माधुर्य येषां तानि तथा । नामिकादीनि नामिकानि-नामनिष्पन्नानि, आदिपदादू आख्यातिकानि स्याद्यन्तरूपाणि त्याद्यन्तरूपाणि च पदानीत्यर्थः । ननु स्वादुशब्दस्य "स्वादु मृष्ट-मनोज्ञयोः" [ मेदिनी ] इति कोशे गुणिवाचकतैव दृश्यते, प्रकृते तु स्वादु माधुर्यमिति वदता या गुणमानवाचकता दय॑ते, सा च कथं विरोधं नावहतीत्याह-स्वच्छेत्यादि । गुणिवाचकस्यापि स्वादुशब्दस्य प्रकारमुद्रया गुणवचनत्वमस्त्येवेति ततो गुणवचनस्यास्य को विशेष इत्यारेकामपनेतुं 'गुणवचनाः' इति वक्तव्ये "गुणमात्रवचना" इत्युक्तम् , मात्रशब्देन गुणिव्यवच्छेदः । अपिशब्देन गुणिवचनसमुच्चयः । दृश्यन्ते इत्यनेन प्रयोगप्रविरलत्वम् , तादशप्रयोगश्चात्र गुणमात्रवचने प्रमाणमित्यावेदितम् । गुणिवचनं स्वादुशब्दमाश्रित्य व्याख्यातुमाह-अथवेति । असंस्कृतानि संस्कृतानि-पुरुषप्रयत्नविशेषापादितसंस्काराणि, संस्कृतभाषामयानीत्यर्थः, यानि च न तथा तानि असंस्कृतानि प्राकृतभाषामयानीत्यर्थः, [अर्धमागधीभाषामयानि, तस्यां प्राकृतबाहुल्यात् प्राकृतेति निर्देशः] । अत एव प्राकृतभाषामयत्वादेव । मन्दधियामपि मन्दमतीनामपि, आस्तां प्रतिभासम्पन्नानाम् । पेशलानि सुखदोच्चारणश्रवणादिगुणगणेन मनोहराणि हृदयग्राहीणीति यावत् । शेमुषीशालिनो हि यथा प्राकृतभाषातस्तोषमासादयन्ति तथा तात्पर्यमात्ररसिकतया परुपबन्धसंस्कृतभाषातोऽपि, सुकुमारमतयस्तु प्राकृतभाषात एवेति प्राकृतभाषाकृततोषस्योभयसाधारण्यावेदनाय For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy