SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू०१ । कारणशुद्ध्योपादेयतामाह । उच्यत इति वाक , वर्णपदवाक्यादिभावेन भाषाद्रव्यपरिणतिः, तामुपास्महे, उपासनं योगप्रणिधानम् । तृष्प्रत्ययान्तेन जेतृशब्देन सह समासो नोपपद्यतेति शेषषष्ठी बोध्या । जिनोपझेति-उपज्ञायत इति उपज्ञा, जिनस्योपज्ञा जिनोपज्ञा, केवलज्ञानेन विलोक्य जिनेनोच्चारिता, “आये धर्मकथाविधौ जिनपतेः" [ तिलकमारी श्लो० ४] इत्यादिमहाकविवचनसंवादितया अश्रुतपूर्वत्वेनापूर्वविस्मयरसजनकतया च प्राथमिक्येव वाणी यदा विवक्षिता तदा उपजानन्तीति के उपज्ञाः, जिना उपज्ञा आदिवक्तारो यस्याः सा तथेति बहुव्रीहिः, अन्यथा "आदावुपक्रमोपजे." [हेमलिङ्गानुशासने नपुंसके श्लो० ११] इति लिङ्गानुशासनवचनान्नपुंसकत्वे जिनोपज्ञमिति स्यात् , केवलज्ञानमासाद्य समवसरणे निषद्य तेन तेन जिनेन प्रथमं निगदिता वाणीत्यर्थः । अनेन वाचि 'जैनी' इति विशेषणोपादानेन । कारणगुळ्या कारणस्य-निमित्तकारणरूपस्य प्रथमप्रयोक्तुः श्रीमतो जिनस्य, शुद्ध्या-रागादिकलङ्कविकलत्वेन निर्मलतया, तदुदीरितवाचोऽपि निर्मलताया लाभेन सकलजनादरभाजनत्वेन । उपादेयतां प्रेक्षावतां ग्राह्यताम् , आह आवेदयति, तथा च तदुपासनाया युक्तत्वमावेदितम् । उच्यते इति वाक् "वचं भाषणे" इत्यस्य “दिद्यु." [५. २. ३.] इति विपि निपातनात् 'वाच्' इति । ननु किमियं वाग् गुणस्वरूपा? द्रव्यस्वरूपा वा? यतो नैयायिकाः शब्दं गगनगुणे गणयन्ति, वैयाकरणा मीमांसकविशेषाश्च द्रव्ये इत्यपेक्षायामाह-भाषाद्रव्यपरिणतिरिति-भाष्यते-अभिप्रायप्रकाशनाय प्रयुज्यते इति भाषा, तस्या द्रव्याणि भाषामयत्वेन परिणामाहा॑णि व्याणि भाषाव्याणि, तेषां परिणतिः-भाषारूपेण परिणमनं भाषाद्रव्यपरिणतिः, परिणाम-परिणामिनोरभेदमवलम्ब्येत्थं निर्देशः, भेदावलम्बने तु प्रयत्नविशेषाद् भाषारूपेण परिणतानि द्रव्याणि वाग् इत्यर्थः फलति । वाक् शब्दात्मिका, शब्दश्च ध्वनि-वर्णभेदेन द्वैविध्यमादधाति, तत्र द्वितीयायां विधायां क्रमशः श्रोतृकृतमवधानमपेक्ष्य वर्णपदवाक्यादिस्वरूपतामाश्रयन्ती वागिह विवक्षितेत्यावेदनायाह-वर्णपदेति । 'उपास्महे' इत्यस्य 'उपासनं कुर्महे' इत्यर्थः, तत्रोपासनं किंस्वरूपमित्याह-उपासनं योगप्रणिधानमिति-- योगानां-“काय-वाङ्-मनःकर्म योगः" [ तत्वार्थ० ६. १] इति वचनाद् मनो-वचो-वपुर्व्यापाराणाम् , प्रकर्षण-ऐकायलक्षणोत्कर्षेण, निधान-ध्येये स्थापन For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy