________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सालङ्कारचूडामणौ काव्यानुशासने अकृत्रिमखादुपदां, परमार्थाभिधायिनीम् । सर्वभाषापरिणतां, जैनी वाचमुपास्महे ॥१॥
रागादिजेतारो जिनास्तेषामियं जैनी जिनोपज्ञा, अनेन सप्तम्या आश्रयेण निर्वाहमुशन्ति, तदपि न युक्तम्-निमित्तं क्रियाफलम् , योगः संयोग-समवायान्यतरसम्बन्धः, तत्र निमित्तस्य [प्रत्यासत्त्या ] स्वान्वयिक्रियाकर्मणा योगे सति निमित्तवाचकात् सप्तमी भवतीति वार्तिकार्थः, तथा चात्र ग्रन्थाऽऽरम्भस्य क्रियाफलत्वेनाविवक्षितत्वात् , तादृशक्रियाफलस्य चेष्टदेवतारूपकर्मणाऽन्वयाभावाच्च प्रकृतवार्तिकाप्रवृत्तेः, तस्माल्लक्षणामूलक व्याख्यानमेव ज्यायः। शिष्टसमयेति-फलसाधनतांशे भ्रान्तिरहिताः प्राक्तना आचार्या व्याख्यातारः पण्डिताश्च शिष्टाः, तेषां समयः-'शिष्टाः क्वचिदभीष्टे वस्तुनि प्रवर्तमाना इष्टदेवतानमस्कारलक्षणं मङ्गलं कृत्वैव प्रवर्तन्ते' इत्येवं य आचारः, तस्य परिपालनाय-रक्षणाय, ग्रन्थकारो यदि शिष्टाचारं न परिपालयेत् तर्हि अपरिपालितशिष्टाचारस्थास्याशिष्टत्वभ्रान्तिविषयीकृतस्य वचसि शिष्टानामध्ययनादौ न प्रवृत्तिः स्यात् , अतः शिष्टाचारपरिपालनं न्याय्यमिति तदर्थ मङ्गलाचरणमावश्यकमित्याशयः; एवं शिष्टाचारपरिपालनं तदाढते वर्मनि स्वहितसाधनबुद्धे ढिमानमादधानं तेषु श्रद्धाविशेष प्रकटयति, शिष्टानां च विफलेषु कर्मसु प्रवृत्तेरसम्भवेनास्यापि व्यापारस्य सफलतांशे संशयस्यानवकाश इत्यपि बोध्यम् । शास्त्रकारः आचार्यश्रीहेमचन्द्रसूरिः, अत्र नामनि निर्देश्ये 'शास्त्रकार' इत्युक्त्या ग्रन्थकर्तुः पाण्डित्यप्रौढिः, प्रतिपाद्यस्य विषयस्य च शास्त्ररूपतया सर्वाङ्गसम्पन्नता च व्यञ्जिता । समुचितेति-समुचितांग्रन्थप्रतिपाद्यविषयानुरूपतया अधिकृतां जिनवाणीरूपसरस्वतीम् , अत एव इष्टाम्-आराध्याम् , यद्वा इष्टां-रागादिजेतृत्वगुणेन अभीष्टां सम्बन्धितया आक्षिप्तां जिनरूपां च देवताम् । प्रणिधत्ते ध्यायति, विशेषतः प्रणिधानस्वरूपमग्रे वक्ष्यते ।
जैनीशब्दो जिनशब्दात् तद्धितेऽणि डीप्रत्यये च निष्पद्यते, जिनशब्दो जिधातोः कर्तरि औणादिके नप्रत्यये भवति, तदर्थश्च जयति-रागादीन् आन्तररिपून् पराभवतीति, एतदावेदनायाह-रागादिजेतार इति-रागादीनां जेतार इति रागादिजेतारः, आदिपदाद् द्वेषादेरुपग्रहः, इह कर्मणि षष्टीस्वीकारे
For Private And Personal Use Only