________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० ५।
ग्रन्थारम्भे शिष्टसमयपरिपालनाय शास्त्रकारः समुचितेष्टदेवतां प्रणिधत्तेसमासः, तेन तथा, अत्र प्रणेता स्वस्मिन् 'आचार्य' इति विशेषणोपनिबन्धनेन स्वोक्तीनामनुपहसनीयत्वं सारवत्त्वं चावेदितम् । अस्य 'प्रतन्यते' इत्यनेन सम्बन्धः । परमात्मानम् अव्याहतज्ञानाद्यतिशयशालिनं देवताविशेषम् , अथवा परम् आत्मानं चेति व्यस्तम् , आत्मनोऽपि ध्येयत्वात् , तस्मिन् हि प्रसन्ने तत्त्वं प्रसीदति, वीतदोषकलुषः पुरुषविशेषः परः, अपरश्वात्मा, उभयपरिज्ञानाच्च मिथ्याज्ञानादिनिवृत्तिः, यतः
"भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः।
क्षीयन्ते चास्य कर्माणि, तस्मिन् दृष्टे पराऽवरे ॥ १ ॥" यदुक्तम्- "द्वे ब्रह्मणी वेदितव्ये परमपरं च" "अपरे ब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति” । विद्वत्प्रीत्यै इत्यनेनानातिसरलवस्तुजातानुक्तेः सम्यतवमुक्तम् । निजम् इति विशेषणोपादानेन स्वस्य व्याख्यानविधावधिकारः समर्थितः । काव्यानुशासनम् अनुशिष्यते-काव्यं प्रतिपाद्यतेऽनेनेति अनुशासनम् , काव्यस्यानुशासनं काव्यानुशासनम् , आचार्यस्य कर्तुः प्रयोजनाभावाद् अनुपादानाद् उभयप्राप्त्यभावान्न “द्विहेतो." [२. २. ८०.] इति षष्ठीपक्षे तृतीयेति "तृतीयायाम्" [३. १. ८४] इति समासप्रतिषेधाप्रसङ्गाद् इध्मव्रश्चनवत् समासः, 'आचार्य हेमचन्द्रेण' इत्यस्य तु 'प्रतन्यते' इत्यनेन सम्बन्धः । 'प्रतन्यते' इत्यनेन विस्तरस्य तत्र तद्वस्तुसत्त्वाधीनतया व्याख्योक्तानामर्थानां सूत्राक्षरलभ्यत्वमुच्यते, तेन च संक्षिप्तबह्वर्थतया सूत्राणां सारभृतत्त्वं व्यक्तम् ॥ १ ॥
सूत्रात्मककाव्यानुशासनग्रन्थस्य मङ्गलपद्यस्य व्याचिख्यासिषया तदवतरणिकामाह-ग्रन्थारम्भ इति-ग्रन्थस्य आरम्भो ग्रन्थारम्भस्तस्मिंस्तथा, आरम्भशब्दश्चात्राऽऽद्यकृतिरूपस्य स्वमुख्यार्थस्य बाधितत्वाल्लक्षणया स्वप्राक्कालमाह, त्वरितविघ्नविधातसामर्थ्यप्रतिपत्तिश्च लक्षणायाः प्रयोजनम् , यत् तु केचित् आरभ्यतेऽस्मिन्नित्यधिकरणघजन्ततामास्थायाऽऽरम्भशब्दस्य लक्षणामन्तरेणैव तत्प्राकालपरत्वमभिप्रयन्ति, तन्न रुचिरम्-तथा सत्यारम्भकालस्यैव वाच्यतया लाभसम्भवात् तत्प्राकालस्य कथमप्यसंस्पर्शात् , यदपि केचिद् 'आरम्भे' इत्यत्र 'निमित्तात् कर्मयोगे' इति वार्तिकमाश्रित्य निमित्तार्थक
For Private And Personal Use Only