________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० ४ ।
१९
प्रकारान्तरेणापीति न काव्यप्रयोजनतयाऽस्माभिरुक्तम् । प्रयोजनमुक्त्वा काव्यस्य कारणमाह
प्रतिभाऽस्य हेतुः॥४॥ प्रतिभा-नवनवोल्लेखशालिनी प्रज्ञा, अस्य-काव्यस्येदं प्रधानं
तदपि न काव्यफलतया प्रतिपादनीयं, तस्य तदन्यथा सिद्धत्वादिति भावः । अनर्थनिवारणमिति-अनर्थः पापं तत्फलं च, तत्फलमात्रस्य तथात्वाभिधाने मूलावशेषे पुनरपि प्ररोहापातात् फलमात्रस्य तथात्वं तु न सम्भावनीयमपि मूलनियतत्वात् फलस्य । प्रकारान्तरेण मन्त्रानुष्ठानादिना । धनस्य काव्यजन्यताव्यभिचारितया व्यवहारकुशलताया नीतिशास्त्रादितोऽपि सम्भवेन, अनर्थनिवारणस्य च मन्त्रानुष्ठानादिना विधेयत्वाञ्च, नैतत् त्रितयं काव्यप्रयोजनतया मतमिति भावः ॥३॥ ___ “काव्यमानन्दाय यशसे” इत्यादिना यत् काव्यप्रयोजनमुक्तं तद् व्यर्थ स्यात् काव्योत्पत्तिजनकस्योपायस्याप्रदर्शनादिति न्यूनतां परिहर्तुमाह-प्रयोजनमुक्त्वा कारणमाहेति-युक्तं चैतत् , प्रयोजनीयतया-अभीष्टतया परिज्ञातस्यैव वस्तुनः कर्त्तव्यतयाऽवधारितस्योपायजिज्ञासोदेतीति प्रयोजनकथनानन्तरमेव कारणकथनमुचितमिति । सूत्रस्थं प्रतिभापदं किमर्थबोधकमिति परिचाययितुमाह-नवनवोल्लेखशालिनी प्रक्षेति-नवादपि नवः-परैः स्वेन वा पूर्वमनुद्भावितः, उल्लेखः-अर्थप्रकाशः, तेन शालते-शोभते या तथाभूता प्रज्ञा-बुद्धिः, प्रतिभापदव्यपदेश्येति । तदाह-'वाग्भटोऽपि--
"प्रसन्नपद नव्यार्थयुक्त्युद्धोधविधायिनी।
स्फुरन्ती सत्कवेर्बुद्विः, प्रतिभा सर्वतोमुखी ॥” [१-४] सत्कवेः प्रसन्नपद-नव्यार्थयुक्त्युद्बोधविधायिनी स्फुरन्ती सर्वतोमुखी बुद्धिः प्रतिभेत्यन्वयः, प्रसन्नानि-प्रसादादिगुणयुक्ततया सुललितानि, पदानि-स्याद्यन्त. त्याद्यन्तानि, नव्याः-पूर्वमनुद्भाविताः, येऽर्थास्ते च, तेषां युक्तिः- योजनम् , उद्बोधः- उल्लासश्व, तयोर्विधायिनी, स्फुरन्ती-प्रसरणशीला, सर्वतोमुखीलौकिका-ऽलौकिकसर्वविषयव्यापिनी बुद्धिः प्रतिभेति तदर्थः। सूत्रस्थम् 'अस्य' इति पदं कस्य परामर्शकमित्याह-काव्यस्येति । परैः कारणान्तराणामप्युक्ततया
For Private And Personal Use Only