________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२७६
Acharya Shri Kailassagarsuri Gyanmandir
सालङ्कारचूडामणी काव्यानुशासने
वाक्यार्थो वस्तुस्वभावः शोकस्य बाह्यवह्नेराधिक्यमिति व्यतिरेकालङ्कारं ध्वनति ।
-
इति । "हृदय स्थितमन्युमरुष्टमुखीमपि मां प्रसादयन् । अपराद्वस्यापि न खलु ते बहुज्ञ ! रोषितुं शक्यम् ॥” इति संस्कृतम् । हे बहुज्ञ ! नानाविधानुनयानां पराशयस्य च विज्ञ, हृदये स्थितः - गुप्तः, न तु प्रकटितः, मन्युः - क्रोधो यया ताम्, तथा अरुष्टं - रोषरहितं मुखं यस्याः, तथाविधामपि मां यतस्त्वं प्रसादयन्नसि, अथवा तथाविधामपि प्रसादयन् हे बहुज्ञेति सम्बोधनमेव, अतोऽपराद्धस्य कृतागसोऽपि ते तत्रोपरि इति शेषः, खलु निश्वयेन मया रोषितुं कोपितुं न शक्यमिति पद्यार्थः । अत्र खण्डिता सती वैदग्ध्यानुनीता नायिका तं प्रत्यसूयां व्यञ्जयन्ती इत्थमाह । अत्र बहुज्ञेत्यामन्त्रणार्थः विशेषतामागतः अनन्तरं तु तदर्थ पर्यालोचनवशात् यत् सामान्यरूपं तादृशबहुज्ञोपरि क्रोधाकरणाशक्यत्वं प्रतीयमानं तदेव तस्य विशेषस्य समर्थकं सत् विशेषतश्चमत्कारकारि प्रतीयत इति यः कश्चिद् बहुज्ञो धूर्तः, स स्वापराधमेवमेवाच्छादयितुं प्रभवतीत्यमुनार्थेन त्वमात्मनि मम मानापनोदननिमित्तकं बहुमानं मा ग्रहीरित्यपि व्यज्यते, परं तु अर्थान्तरन्यासालङ्कार एव मुख्यो व्यङ्ग्यः ॥
उत्प्रेक्षाध्वनिर्यथा - "चन्दनासक्तभुजगनिःश्वासानिलमूच्छितः । मूर्च्छयत्येष पथिकात मधौ मलयमारुत ॥" चन्दने - श्रीखण्डे, आसक्तानां संलग्नानां, भुजगानां निःश्वासानिलैः- श्वासवातैः, मूच्छितः वर्धितः, एष मलयानिलः - दक्षिणपवनः, मधौ - वसन्ते, पथिकान्-अध्वगान् वियोगिनः मूर्च्छयति सम्मोहयति, इत्यर्थः । इह वसन्ते मलयानिलस्य पथिकमूर्च्छकत्वं वस्तुतो मदनकदनविधायिस्वेनैव सम्भवत् चन्दनतरुलन सर्वनिःश्वासवातवर्द्धितत्वेन सम्भावितम् इवादिशब्दareप्रेक्षावाचको नोक्त इत्यखिलवाक्यार्थव्यज्योत्प्रेक्षालङ्कारध्वनिः, विषसंसर्ग-मन्तरेण हि मलयानिलस्य मूर्च्छाजनकत्वमसंभवीति स तादृशसंसर्गवत्तेनोक्षितः ॥
>
न चैवंविधे विषये इवादिशब्दप्रयोग मन्तरेणासमा बद्धतैवेति वाच्यम्, विनाऽपीवादिप्रयोगमन्यत्राप्युत्प्रेक्षादर्शनात्, तथाहि - " ईसाकलुसस्स वि तुह मुहस्सन एस पुण्णमायंदो । अज्ज सहिसत्तणं पाविऊण, अंगि चिअ न माइ ॥” इति [ ] "कलुषस्यापि तव मुखस्य नन्वेष पूर्णिमाचन्द्रः ।
For Private And Personal Use Only