SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सालकारचूडामणौ काव्यानुशासने अत्र पतितं कुसुममुच्चिनु मा धुनीहि शेफालिकामिति विधिनिषेधयोरभिधाने सखि! चौर्यरते प्रसक्त वलयशब्दो न कर्तव्य इति निषेधान्तरं प्रतीयते। क्वचिद् विधावनुभयं यथा"सणियं वञ्च किसोयरि; पए पयत्तेण ठवलु महिवढे । भजिहिसि वत्थयत्थणि विहिणा दुक्खेण निम्मविया ॥ अत्र शनैर्बजेति विध्यभिधानेन विधिर्नापि निषेधोऽपि तु वर्णना मात्र प्रतीयते। कचिद् विधौ वाच्ये-विधि-निषेधयोः कस्याप्यप्रतीतिरिति तदुदाहर्तुमाहक्वचिदविधावनुभयमिति । सणियं वच्च किसोयरीति-"शनकैब्रज कृशोदर !, पदौ प्रयत्नेन स्थापय महीपृष्ठे । मलयसि विस्तृतस्थानानि, विधिना प्रयत्नेन निर्मितानि ॥” इति संस्कृतम् । कश्चित् कामुकः क्वचिद् यान्तीमभिसारिका दृष्टाऽसि' इति प्रतिबोधनपूर्वकं स्वाभिमुखीकरणायाह-हे कृशोदरि !कृशम्-अस्थूलम् , उदरं-मध्यभागो यस्याः सा, तत्सम्बुद्धौ हे तनुमध्ये !, शनैःमन्द, ब्रज-याहि, तत्प्रकारमेवाह-पदौ-चरणौ, प्रयत्नेन सावधानतया निम्नोअतप्रदेशं दृष्ट्वा, महीपृष्ठे पृथ्वीतले, स्थापय, कुत इति चेत्-[अशनैर्गमने] विधिना-ब्रह्मणा, प्रयत्नेन महता श्रमेण, निर्मितानि-संघटितानि, विस्तृतस्थानानि-ऊरुनितम्बवक्षःस्थलादिप्रदेशान् , भक्षयसि विघटयिष्यसीत्यर्थः, मध्यस्य कृशतया निम्नोत्रतप्रदेशे कदाचित् पतितौ पादौ तदा मध्यस्य भङ्गे भारभूतानां तेषां भङ्गोऽवश्यं भावीति भावः । अत्र विधिः-शनकैर्वजेति स्पष्टः, किन्तु वक्तुगेमने गमननिषेधेऽन्यत्र वा कापि तात्पर्यमिति निर्धारयितुं न शक्यते, तदाहअत्र शनैर्वजेति विध्यभिधानेनेति, तर्हि किं प्रतीयत इति चेदत्राहवर्णनामात्रमिति-तस्याः स्वरूपवर्णनमानं प्रतीयत इति भावः ॥ क्वचिन्निषेधे वाच्ये विधि-निषेधयोरुभयोर्मध्ये कस्याप्यप्रतीतिः, यथा-दे आ पसिएति-"प्रार्थये प्रसीद निवर्तस्व मुखशशिज्योत्स्नाविलुप्ततमोनिवहे ! अभिसारिकाणां विघ्नं करोष्यन्यालामपि हताशे! ॥” इति संस्कृतम् । काचिदभिसतुं प्रस्थिता स्वयमेव गृहमागतं प्रियतममवलोक्य, स्वयं निवर्ति For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy