SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२१ प्रकाशाभिधविवृता अध्या० १, सू० १९ । wwwwwwwwwwwwwwwwww क्वचिनिषेधेऽनुभयं यथा"दे आ पसिअ निअत्तसु मुहससिजोहाविलुत्तमोनिवहे । अहिसारिआण विग्धं करेसि अण्णाण वि हयासे ॥[ ] अत्र निवर्तखेति निषेधाभिधाने न निषेधो नापि विधिरपि तु मुखेन्दुकान्तिवर्णनामात्रं प्रतीयते । क्वचिद् विधिनिषेधयोरनुभयं यथा"वञ्च महं चिअ पकाए होंतु नीसासरोइअव्वाइं। मा तुज्झ वि तीए विणा दक्खिण्णहयरस जायंतु ॥" [स० श० ९४४] प्यमाणाऽपि गच्छन्तीव तेनैवमुच्यते । मुखस्य शशिरूपस्य ज्योत्स्नया विलुप्त स्तमसा निवहः-समूहो यया तत्सम्बुद्धौ-हे वदनेन्दुचन्द्रिकानिरस्ततमस्तोमे !, [स्वामहं ] प्रार्थये-निवर्तस्वेति-मा प्रयासीः, कुत इति चेत् ? शृणु-हे हताशे! हता मदीया भाशा यया तथाभूते ! [बहुकालं] मया सङ्केतस्थाने त्वदागमनप्रत्याशया स्थितेन त्वामनायातां वीक्ष्यवेहायातमिति तादृशासि, एवं चैतस्य सम्बोधनस्य समर्थनसम्भवे 'हताशे' इति सम्बुद्धरनौचिती ध्वन्यालोकटीकोक्ता चिन्त्या, न च संकेतस्थानमनायातामपरागां गच्छतोऽस्यानोचिती प्रतीयेतेति चेत् ? बहुशः परीक्षितरागायाः कारणविशेष विनिपातेन सम्भाव्य. मानानागमनायाः स्थितिज्ञानायागमनस्य विशेषस्नेहव्यञ्जकत्वात् । भन्यासामपि अभिसारिकाणां विघ्नं करोषि, कृष्णपक्षेऽभिसारिका नीलनिवसनाः सत्योऽभिसरन्ति, स्वया च स्वमुखप्रकाशेन दिशो वितिमिराः क्रियन्त इति ता अपि जनवीक्षणभयानाभिसरिष्यन्तीति भावः । ध्वन्यालोकटीकायां तुअस्य पद्यस्य प्रकरणनिर्देशो इत्थमुक्तः "नायकः स्वापराधमवधाय सङ्केतस्थलानिवर्तमानां दयितां निवर्तयश्चाधुनाऽनुनयति, अथवा नायकस्य गृहमेवागच्छन्तीं प्रत्यप्रत्यभिज्ञानच्छलेन, तटस्थस्य वाऽभिसारिकासामान्यं प्रत्यदो वचनमिति अत्रानुभयप्रतीतिमाहनिवर्तस्वेति निषेधाभिधान इत्यादिना। मुखेन्दुकान्तिवर्णनामात्रमितिमुखेन्दुकान्तेः शुक्लपक्षकारकत्वप्रत्यायनेनातिशयकान्तिमत्त्वं तेन च तद्गत भास्माभिलाषो व्यक्त इत्येतावदेव प्रतीयते, नवा विधिर्नवा निषेध इति ॥ कचित् विधि-निषेधयोः सतोरपि तयोर्मध्ये कस्याप्यप्रतीतिमुदाहरति-वच्च महं चिएति-"व्रज ममैवैकस्याः भवन्तु निःश्वासरोदितव्यानि मा तवापि For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy